पृष्ठम्:मनोहरकाव्यमाला.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १३८ ) यत्रैकस्मिन्वधं नीते बहूनां तु सुखं भवेत् ॥ ७८ ॥ तस्य हिंसा कृता नूनं बहु पुण्य प्रदा भवेत् । भक्षितान्यनया भूरि लोके डिम्भानि दुष्टया ॥ ७६ ॥ तत्क्षिप्रं वध्यतामेषा लोकः स्वस्थो भविष्यति । राजोवाच- चांडालाधिपते तीव्रं व्रतं स्त्रीवधवर्जनम् ॥ ८० ॥ आजन्मतस्ततो यत्नं न कुर्यां स्त्रीवधे तव । चांडाल उवाच- स्वामिकार्यं विना दुष्ट किं कार्यं विद्यते परम् ॥ ८१ ॥ गृहीत्वा वेतनं मेऽद्य कस्मात् कार्य विलुम्पसि । यः स्वामिवेतनं गृह्य स्वामिकार्य विलुम्पति ॥२॥ नरकान्निष्कृतिस्तस्य नास्ति कल्पायुतैरपि । राजोवाच- चांडालनाथ मे देहि कार्यमन्यत्सुदारुणम् ॥ ८३ ॥ स्वशत्रु ब्रूहि तं क्षिप्रं घातयिष्याम्यसंशयम् । घातयित्वा तु तं शत्रु तव दास्यामि मेदिनीम् ॥ ८४ ॥ देवदेवोरगैः सिद्धैर्गन्धर्वैरपि संयुतम् । देवेन्द्रमपि जेष्यामि निहत्य निशितैः शरैः ॥ ५ ॥ एतच्छ्रुत्वा ततो वाक्यं हरिश्चन्द्रस्य भूपतेः । चांडालः कुपितः प्राह वेपमानं महीपतिम् ॥ ८६ ॥ चांडाल उवाच- "नेतद्वाक्यं सुघटितं यद्वाक्यं दासकीर्तितम्" । चांडालदासतां कृत्वा सुराणां भाषसे वचः । दास किंबहुना नूनं शृणु मे गदतो वचः ॥ ८७ ॥ निर्लज्ज तव चेदस्ति किंचित् पापभयं हृदि । किमर्थ दासतां यातश्चांडालस्य तु वेष्मनि ॥ ८ ॥