पृष्ठम्:मनोहरकाव्यमाला.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १२३ ) एवं भार्या वदित्वाऽथ सुसंबद्धं परस्परम् । पुत्रं च तमुवाचेदं मां त्वं हित्वा व यास्यसि ॥ ५६ ॥ कां दिशं प्रति यास्यामि को मे दुःख निवारयेत् । राजत्यागे न मे दुःखं वनवासे न मे द्विज ॥ ५७ ॥ यत्पुत्रवियोगे हि मे एवमाह स भूपतिः । सद्भर्तृभोग्या हि सदा लोके भार्या भवन्ति हि ॥ ५८ ।। मया त्यक्ताऽसि कल्याणि दुःखेन विनियोजिता । इक्ष्वाकुवंशसंभूतं सर्वराज्यसुखोचितम् ॥ ५६ ।। मामीशं पति प्राप्य दासीभावं गता ह्यसि । ईदृशं मज्जमानं मां सुमहच्छोकसागरे ॥ ६० ।। सूत उवाच- पश्यतस्तस्य राजर्षेः कशाघातैः सुदारुणैः । घातयित्वा तु विप्रेशो नेतुं समुपचक्रमे ॥ ६१ ॥ नीयमानौ तु तौ दृष्ट्वा भार्यापुत्रौ स पार्थिवः । विललापातिदुःखार्तो निश्वस्योष्णं पुनः पुनः ॥ १२ ॥ यां न वायुर्न वाऽऽदित्यो न चन्द्रो न पृथग्जनाः दृष्टवन्तः पुरा पत्नी सेयं दासीत्वमागता ॥६३॥ हा प्रिये हा शिशो वत्स ममाऽनार्यस्य दुर्नयः । दैवाधीन दशां प्राप्तो न मृतोऽस्मि तथापि धिक् ॥ ६४ ॥ व्यास उवाच- एवं विलपतो राज्ञोऽग्रे विप्रोऽन्तरधीयत । अत्रान्तरे मुनिश्रेष्ठस्त्वाजगाम महातपाः ॥ ६५ ॥ स शिष्यः कौशिकेन्द्रोऽसौ निष्ठुरः करदर्शनः । विश्वामित्र उवाच- या त्वयोक्ता पुरा राजन् राजसूयस्य दक्षिणा । तां ददख महाबाहो यदि सत्यं पुरस्कृतम् ॥ ६६ ॥