पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. ४८२ मनुस्मृतिः। [ अध्यायः१२ वैदिक इति ॥ वैदिके पुनः कर्मयोगे परमात्मोपासनारूले सर्वाण्येतानि पूर्व- श्लोकोक्तान्यहिकामुप्सिकश्रेयांसि तस्मिन्नुपासनाविधी क्रमशः संभवन्ति । अथवा सर्वापयेतानीति वेदाभ्यासादीन्येव परामृश्यन्ते । परात्मज्ञाने वेदाभ्यासादीनि 'तमेतं वेदानुवचनेन विविदिपन्ति यज्ञेन दानेन तपमाऽनागकेन्' इति श्रुतिवि- हिताङ्गत्वेनान्तर्भवन्ति ॥ ८७ ॥ सुखाभ्युदयिकं चैव नैःश्रेयसिकमेव च । प्रवृत्तं च निवृत्तं च द्विविध कर्म वैदिकम् ॥ ८८ ॥ सुखेति ॥ वैदिकं कर्मात्र ज्योतिष्टोमादिप्रतीकोपासनादि च गृह्यते । स्वर्गादि- सुखप्राप्तिकरसंसारप्रवृत्तिहेतुत्वात्प्रवृत्ताख्यं वैदिकं कर्म, तथा नि.श्रेयसं मोक्षस्त- दर्थ कर्म नैःश्रेयसिकं संसारनिवृत्तिहेतुन्वानिवृत्ताख्यमित्येवं वैदिकं कर्म द्विप्रकारक वेदितव्यम् ॥ ८८ ॥ एतदेव स्पष्टयति- इह चामुत्र वा काम्यं प्रवृत्तं कर्म कीलते । निष्कामं ज्ञानपूर्व तु निवृत्तमुपदिश्यते ॥ ८९ ॥ [अकामोपहतं नित्यं निवृत्तं च विधीयते । कामतस्तु कृतं कर्म प्रवृत्तमुपदिश्यते ॥ इहेति ॥इह काम्यसाधनं वृष्टिहेतुकारि यागादिरन स्वर्गादिफलसाधनं ज्योतिष्टो- मादि यत्कामतया क्रियते तत्संसारप्रवृत्तिहेतुत्वात्प्रवृत्तमित्युच्यते । दृष्टादृष्टफलका- मनारहितं पुनर्ब्रह्मज्ञानाभ्यासपूर्वकं संसारनिवृत्तिहेतुत्वान्निवृत्तमित्युच्यते ॥८९॥ प्रवृत्तं कर्म संसेव्य देवानामेति साम्यताम् । निवृत्तं सेवमानस्तु भूतान्यत्येति पञ्च वै ॥९॥ प्रवृत्तमिति ॥ प्रवृत्तकाभ्यासेन देवसमानगतित्वं तत्फलं कर्मणा प्राप्नोति । एतच्च प्रदर्शनार्थमन्यफलकेन कर्मणा प्रवृत्तेन फलान्तरमपि प्राप्नोति । निवृ- त्तकर्माभ्यासेन पुनः शरीरारम्भकानि पञ्च भूतान्यतिक्रामति । मोक्षं प्राप्नोती- वर्थः ॥ ९॥ सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । समं पश्यन्नात्मयाजी स्वाराज्यमधिगच्छति ॥ ९१ ॥ सर्वेति ॥ सर्वभूतेषु स्थावरजङ्गमात्मकेप्वहमेवात्मरूपेणास्मि सर्वाणि भूतानि परमात्मपरिणामसिद्धानि मय्येव परमात्मन्यासत इति सामान्येन जाननात्मयाजी ब्रह्मार्पणन्यायेन ज्योतिष्टोमादि कुर्वन् स्वेन राजते प्रकाशत इति स्वराट् ब्रह्म तस्य भावः स्वाराज्यं ब्रह्मत्वं लभते । मोक्षमाप्नोतीत्यर्थः। तथा च श्रुतिः-'सर्व खल्विदं ब्रह्म तजलानिति शान्त उपासीत' । तथा यजुर्वेदमन्त्रः-'यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति । सर्वभूतेषु चात्मानं ततो न विजुगुप्सते' ॥ ११ ॥