पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५१२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१८० मनुस्मृतिः । [ अध्यायः १२ वादिषु चतुर्थाध्यायोक्तेषु घोरेषु नरकेषु दुःखानुभवं प्रामुवन्ति । तथाऽसिपत्रव- नादीनि बन्धनच्छेदनात्मिकान्नरकान्प्राप्नुवन्ति ॥ ७५ ॥ विविधाश्चैव संपीडाः काकोलूकैश्च भक्षणम् । करम्भवालुकातापान्कुम्भीपाकांश्च दारुणान् ॥ ७६ ॥ विविधा इति ॥ विविधपीडनं काकाद्यैर्भक्षणं तथा तप्तवालुकादीन कुम्भीपा- कादींश्च नरकान्दारुणान्प्रामुवन्ति ॥ ७६ ॥ संभवांश्च वियोनीषु दुःखप्रायासु नित्यशः । शीतातपाभिघातांश्च विविधानि भयानि च ॥ ७७॥ संभवांश्चेति ॥ संभवान् तिर्यगादिजातिषु नित्यं दुःखबहुलासूत्पत्तिं प्राप्नुवन्ति । तत्र गीतातपादिपीडनादि नानाप्रकाराणि च प्रामुवन्ति ॥ ७७ ॥ असकृद्दर्भवासेषु वासं जन्म च दारुणम् । बन्धनानि च काष्ठानि परप्रेप्यत्वमेव च ।। ७८ ॥ असकृदिति ॥ पुनः पुनर्गर्भस्थानेषु वासः समुत्पत्तिं च योनियन्त्रादिभिर्दुःखा. वहामुन्पन्नाश्च शृङ्खलादिभिर्वन्धनादिपीडामनुभवन्ति । परदासत्वं च प्राम- वन्ति ॥ ७८ ॥ बन्धुप्रियवियोगांश्च संवासं चैव दुर्जनैः । द्रव्यार्जनं च नाशं च मित्रामित्रस्य चार्जनम् ॥ ७९ ॥ बन्धुप्रियेति ॥ बान्धवैः सुहृद्भिः सह वियोगान्, दुर्जनैश्च सहकत्रावस्थान, धनार्जनप्रयासं, धनविनाशं, कष्टेन मित्रार्जनं, शत्रुप्रादुर्भावं प्रामुवन्ति च ॥७९॥ जरां चैवाप्रतीकारां व्याधिभिश्चोपपीडनम् । क्लेशांश्च विविधांस्तांस्तान्मृन्युमेव च दुर्जयम् ॥ ८ ॥ जरामिति ॥ जरां चाविद्यमानप्रतीकारां व्याधिभिश्वोपपीडनं क्षुत्पिपासादिना च नानाप्रकारान् क्लेशान्मृन्युं च दुर्वारं प्रामवन्ति ॥ ८ ॥ यादृशेन तु भावेन यद्यत्कर्म निषेवते। तादृशेन शरीरेण तत्तत्फलमुपाश्नुते ॥ ८१ ॥ यादृशेनेति ॥ यथाविधेन सात्त्विकेन राजसेन तामसेन वा चेतसा यद्यत्कर्म नानदानयोगाद्यनुतिष्ठति तादृशेनैव शरीरेण सात्विकेन रजोऽधिकेन नमोऽधिकन का तत्तत्स्नानादिफलमुपभुते ॥ ८ ॥ एष सर्वः समुद्दिष्टः कर्मणां वः फलोदयः। नैश्रेयसकरं कर्म विप्रसेदं निबोधत ॥ ८२ ॥