पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३२१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अध्यायः ८] मन्वर्थनुक्तावलीसंवलिता। २८७ एतानिति ॥ एतानसत्यभाषणदोषानधिगम्य दृष्टश्रुतानतिक्रमेण सर्वमेवाजसा तत्त्वतो ब्रूहि ॥ १०१ ॥ गोरक्षकान्वाणिजिकांस्तथा कारुकुशीलवान् । प्रेष्यान्वाधुषिकांश्चैव विप्राशूद्रवदाचरेत् ॥ १०२ ॥ गोरक्षकानित्यादि ॥ गोरक्षणजीबिनो, वाणिज्यजीविनः, सूपकारादिकारकर्मजी- विनः, दासकर्मजीविनः, नटकर्मनृत्यगीतादिजीविनः, प्रतिषिद्धजीविनो ब्राह्मणा- प्रकृतसाक्ष्यदर्शने शूद्रवत्पृच्छेत् ॥ १०२ ॥ तद्वदन्धमतोऽर्थेषु जाननप्यन्यथा नरः। न वर्गाश्यवते लोकादेवीं वाचं वदन्ति ताम् ॥ १०३ ॥ तद्वदन्निति ॥ तदेतत्साक्ष्यमन्यथापि जानन्मनुप्यो धर्मेण दयादिना व्यवहारे- एवन्यथा वदन्स्वर्गलोकान भ्रश्यति । यस्माद्यदेतन्निमित्तविशेषेणासत्याभिधानं तां देवसंबन्धिनी वाचं मन्वादयो वदन्ति ॥ १०३ ॥ व पुनस्तदसत्यं वक्तव्यमित्यत आह- शूद्रविदक्षत्रविप्राणां यत्रफ़क्तौ भवेधः । तत्र वक्तव्यमनृतं तद्धि सत्याद्विशिष्यते ॥ १०४ ॥ शूद्रेति ॥ यस्मिन्व्यवहारे सत्याभिधाने सति शूद्रवैश्यक्षत्रियब्राह्मणानां वध: संपद्यते तत्रासत्यं वक्तव्यम् । यस्मात् यस्मिन्विषयेऽनृतं यत्तत्प्राणरक्षणेन सत्या- द्विशिष्यते । एतच्च प्रमादस्खलिताधर्मविषयत्वे न त्वत्यन्ताधार्मिकसंधिकारस्तेना- दिविपये । तथा गोतमः-'नानृतवदने दोषो यजीवनं चेत्तदधीनं नतु पापी- यसो जीवनम्' इति । नच 'न जातु ब्राह्मणं हन्यात्सर्वपापेप्वपि स्थितम्' इति भनुनैव वक्ष्यमाणत्वान्न ब्राह्मणवधप्रसक्तिरिति वाच्यम् । उग्रदण्डत्वाद्राज्ञः कथं- चित्संभवात् । अत्र वचने शूद्रादिक्रमेणाभिधानं वधस्यामङ्गलत्वात् ॥ १०४ ॥ वाग्दैवत्यैश्च चरुभिर्यजेरंस्ते सरस्वतीम् । अनृतस्यैनसस्तस्य कुर्वाणा निष्कृति पराम् ॥ १०५॥ वाग्देवत्यैरिति ॥ ते साक्षिणोऽनृताभिधायिनो वाग्देवताकैश्चरुभिः सरस्वती यजेरन् । तस्यानृताभिधानजनितपापस्य प्रकृष्टां शुद्धिं कुर्वाणाः । साक्षिबहुत्वा- पेक्षं चेदम् न त्वेकस्यैव साक्षिणः कपिञ्जलन्यायेन चरुत्रयम् । यद्यपि वाग्देव- ताके चरौ वाक्शब्देनैव देवतात्वं न सरस्वतीशब्देन 'विधिशब्दस्य मन्त्रत्वे भावः स्यात्' इति न्यायात्तथापि 'वाग्वै सरस्वती' इति श्रुतेक्सिरस्वत्योरेकार्थत्वात्सर- स्वतीमित्युपसंहारः । अत्र प्रकरणे चेदं प्रायश्चित्ताभिधानं लाघवार्थम् । तत्र कि- यमाणे शूद्रविदक्षत्रियब्राह्मणवधविषयानृतवादिन इत्यपि वक्तव्यं स्यात् ॥१०५॥ कूष्माण्डैर्वापि जुहुयाद्धृतमग्नौ यथाविधि । उदित्यूचा वा वारुण्या तृचेनाब्दैवतेन वा ॥ १०६ ॥