अध्यायः ७] मन्वर्थमुक्तावलीसंवलिता।
२५९
बलस्येति ॥ साध्यस्वप्रयोजनसियर्थ बलस्य हस्त्यश्वादेः सेनाधिपत्याधिष्ठितस्य
एकत्र शत्रुनृपोपद्ववारणार्थमवस्थानमन्यत्र दुर्गदेशे राज्ञः कतिचिद्धलाधिष्टिन-
स्थावस्थानमेवं संध्यादिगुणषट्रोपकारज्ञैः द्विविधं द्वैधं कीर्त्यते ॥ १६७ ॥
अर्थसंपादनार्थ च पीड्यमानस्य शत्रुभिः ।
साधुषु व्यपदेशार्थ द्विविधः संश्रयः स्मृतः॥ १६८ ॥
अर्थेति ॥ शत्रुभिः पीड्यमानस्य शत्रुपीडानिवृत्त्याख्यप्रयोजनसिद्ध्यर्थम् , असत्यः-
मपि वा तत्काले पीडायां भाविशत्रुपीडनशङ्कया अमुकमयं महाबलं नृपतिमा-
श्रित इति सर्वत्र व्यपदेशोत्पादनाथ बलबदुपाश्रयणमेवं द्विविधः मंश्रयः
स्मृतः ॥ १६८ ॥
यदावगच्छेदायत्यामाधिक्यं ध्रुवमात्मनः ।
तदात्वे चाल्पिको पीडां तदा संधि समाश्रयेत् ॥१६९॥
यदेत्यादि ॥ यदा युद्धोत्तरकाले निश्चितमात्मन आधिक्यं जानीयात्तद्वान्वे
तत्कालेऽल्पधनाद्युपक्षयः तदा त्वल्पमङ्गीकृत्यापि संधिमाश्रयेत् ॥ १६९ ।।
यदा प्रकृष्टा मन्येत सर्वास्तु प्रकृतीभृशम् ।
अत्युच्छ्रितं तथात्मानं तदा कुर्वोत विग्रहम् ॥ १७० ॥
यदेति ॥ यदामात्यादिकाः सर्वाः प्रकृतीर्दानसंमानाद्यैरतीव तुष्टा मन्येत
आन्मानं च हस्त्यश्वकोशादिशक्तित्रयेणोपत्तितं तदा विग्रहमाश्रयेत् ॥ १७० ॥
यदा मन्येत भावेन हृष्टं पुष्टं बलं स्वकम् ।
परस्य विपरीतं च तदा यायाद्रिपुं प्रति ॥ १७१ ॥
यदेत्यादि ॥ यदात्मीयममात्यादिसैन्यं हर्पयुक्तं धनादिना पुष्टं तत्त्वतो जानी-
यात् , शत्रोश्वामात्यादिबलं विपरीतं तदा तं लक्षीकृत्य यायात् ॥ १७१ ॥
यदा तु स्यात्परिक्षीणो वाहनेन बलेन च ।
तदासीत प्रयत्नेन शनकैः सांत्वयनरीन् ॥ १७२ ॥
यदेत्यादि ॥ यदा पुनर्वाहनेन हस्त्यश्वादिना बलेन चामात्यादिविपत्त्यादिपरि-
क्षीणो भवेत्तदा सामोपदाप्रदानादिना शत्रून्प्रसान्त्वयन्प्रयत्नेनासनमाश्रयेत् १७२
मन्येतारिं यदा राजा सर्वथा बलवत्तरम् ।
तदा द्विधा बलं कृत्वा साधयेत्कार्यमात्मनः॥ १७३ ।।
मन्येतेति ॥ यदा राजा सर्वप्रकारेण वलीयांसमशक्यसंधानं च शत्रु
बुद्ध्येत्तदा कतिचिबलसहितः स्वयं दुर्गमाश्रयेत् । बलैकदेशेन च शत्रुविरोधमा-
चरेत् । एवं द्विधा बलं कृत्वा मित्रसंग्रहादिकं स्वकार्य साधयेत् ॥ १७३ ॥
यदा परबलानां तु गमनीयतमो भवेत् ।
तदा तु संश्रयेत्क्षिप्रं धार्मिकं बलिनं नृपम् ॥ १७४ ॥
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२९३
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
