पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०८
[अध्यायः ३
मनुस्मृतिः।

अकारणपरित्यक्ता मातापित्रोर्गुरोस्तथा ।
ब्राह्मैर्यौनैश्च संबन्धैः संयोगं पतितैर्गतः ॥ १५७ ॥

 अकारणेति ॥ मातुः पितुर्गुरूगां च परित्यागकारणं विना त्यक्ता शुश्रूषादेरकर्ता, पतितश्चाध्ययनकन्यादानादिभिः संबन्धैः संपर्कं गतः । पतितत्वादेवास्य निषेध इति चेन्न । संवत्सरात्प्रागिदं भविष्यति संवत्सरेण पततीति वक्ष्यमाणत्वात् ॥ १५७ ।।

अगारदाही गरदः कुण्डाशी सोमविक्रयी।
समुद्रयायी बन्दी च तैलिकः कूटकारकः॥ १५८ ॥

 अगारेति ॥ गृहदाहकः, मरणहेतुद्रव्यस्य दाता, कुण्डस्य वक्ष्यमाणस्य योऽन्नमश्नाति । प्रदर्शनार्थत्वात्कुण्डस्य गोलकस्यापि ग्रहणम् । अतएव देवल: - 'अमृते जारजः कुण्डो मृते भर्तरि गोलकः । यस्तयोरन्नमश्नाति स कुण्डाशीति कथ्यते॥' सोमलताविक्रेता, समुद्रे यो वहित्रादिना द्वीपान्तरं गच्छति, बन्दी स्तुतिपाठकः, तैलार्थं तिलादिबीजानां पेष्टा, साक्षिवादे कूटस्य मृषावादस्य कर्ता ॥ १५८

पित्रा विवदमानश्च कितवो मद्यपस्तथा ।
पापरोग्यभिशस्तश्च दाम्भिको रसविक्रयी ॥ १५९ ॥

 पित्रेति ॥ पित्रा सह शास्त्रार्थे लौकिके वा वस्तुनि निरर्थं यो विवदते, कितवो यः स्वयं देवितुमनभिज्ञः स्वार्थं परान्देवयति न स्वयं देविता तस्योक्तत्वात् । नच सभिकः तस्य धूतवृत्तिपदेनाभिधास्यमानत्वात् । 'केकरः' इति पाठे तिर्यग्दृष्टिः, सुराव्यतिरिक्तमद्यपाता, कुष्ठी, अनिर्णीतेऽपि तस्मिन्महापातकादौ जाताभिशापः, छद्मना धर्मकारी, रसविक्रेता ॥ १५९ ॥

धनुःशराणां कर्ता च यश्चाग्रेदिधिषूपतिः ।
मित्रध्रूग्द्यूतवृत्तिश्च पुत्राचार्यस्तथैव च ॥ १६० ॥

 धनुरिति ॥ धनूंषि शरांश्च यः करोति, ज्येष्ठायां सोदरभगिन्यामनूढायां या कनिष्ठा विवाहेन दीयते साग्रेदिधिषूस्तस्याः पतिः। तथाच लौगाक्षिः-'ज्येष्ठायां यद्यनूढायां कन्यायामुह्यतेऽनुजा । सा चाग्रेदिधिषूर्ज्ञेया पूर्वा तु दिधिषूः स्मृता॥' गोविन्दराजस्तु 'भ्रातुर्मृतस्य भार्यायाम्' इत्यनेनाग्रेदिधिषूपतिरेव वृत्तिवशादग्रेपदलोपेन दिधिषूपतिरिति मनुना वक्ष्यते स इह गृह्यत इत्याह । मित्रध्रुक् यो मित्रस्यापकारे वर्तते, द्यूतवृत्तिः सभिकः, पुत्रेणाध्यापितः पिता पुत्राचार्यत्वासंभवात् ॥ १६०॥

भ्रामरी गण्डमाली च श्वित्र्यथो पिशुनस्तथा ।
उन्मत्तोऽन्धश्च वर्ज्याः स्युर्वेदनिन्दक एव च ॥१६१ ॥

 भ्रामरीति ॥ अपस्मारी, गण्डमालाख्यव्याध्युपेतः, श्वेतकुष्ठयुक्तः, दुर्जनः, उन्मादवान् अचक्षुः, वेदनिन्दाकरः ॥ १६ ॥