पृष्ठम्:मथुराविजयम्.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मधुराविजये
हिमभरैर्विहतः कमलाकरो मृतिकान्तिरभून्मृगलाञ्छनः |
वदनमेव नरेन्द्रनतभ्रुवामभजत श्रियमप्रतिशासनाम् ॥ ५२ ॥
पुलककञ्चुकितैः कुचमण्डलैः स्फुरितसीत्कृतिभिश्च मुखेन्दुभिः ।
अविरतं स्मरतन्त्रमिवान्वभूदवनिपालविलासवतीजनः । ५३ ।।
विकचकुन्दकलापपरिष्क्रियाविरचितालकजालकविभ्रमम् ।
असमयेऽपि समौक्तिकमण्डनं प्रभुरमंस्त निजं प्रमदाजनम् ॥ ५४ ॥
बहलकुङ्कुमपङ्कविलेपन प्रसृमरोष्मपयोधर मण्डलैः ।
अरमताविरतं रमणीजनैरगरुगन्धिषु गर्भगृहेषु सः ॥ ५५ ॥
इति सुखान्युचितानि हिमागमे समनुभूय मनोभवसन्निभः ।
शिशिरयामवतीष्वपि रागचान् रमयितुं रमणीरुदयुङ्क्त सः ॥ ५६ ॥
शबलितान्यलिकागरुबिन्दुभिश्चलदृशां रतिविभ्रमसूचकैः ।
नवलवङ्गतरुप्रसवास्तृतान्यभजतानुनिशं शयितानि सः ॥ ५७ ॥
परिलसन्नवलोध्ररजोमरच्छुरणपाण्डरगण्डतलैर्मुखैः ।
मृगमदद्रवचारुविशेष कैर्मृगदृशो नृपतेरहरन् मनः ॥ ५८ ॥
अपदिशञ्छिशिरानिलमङ्गकैः पुलकितैर्नृपतेः सविधं गतः ।
मदनसंभृतघर्मपयः कणैर्भृशमलज्जत मुग्धबघूजनः ॥ ५९ ॥
द्विगुणयन्नधरव्रणवेदनां कृतकचग्रहणैः परिचुम्बनैः ।
कपटरोषकषायितलोचनं निभृतहासमवैक्ष्यत यौवतैः ।। ६० ।
विकलकञ्चुकलक्ष्यन (व?ख) व्रणं विगतमौक्तिकहारमनोहरम् ।
तरुणिमोष्मनखम्पचमङ्गनास्तनयुगं हिमहारि विभोरभूत् ॥ ६१ ॥
उपहरन् कुसुमानि महीरुहां किसलयैः कलिताञ्जलिबन्धनः ।
मधुरकोकिलकूजितभाषितो मधुरथैनमुपासितुमासदत् ॥ ६२ ॥