२०
मधुराविजये
देहब (न्ध?द्ध) मिवोत्साहं तमारुह्य महीपतिः ।
अमंस्त पृथिवीं सर्वामात्मनो हस्तवर्तिनीम् ॥ २९ ॥
स तत्र तत्र संभूतैः सैन्यैः सङ्ख्यातिलङ्घिभिः ।
अन्तर्हिततदाभोगमत्यगाद् गृहगोपुरम् ॥ ३० ॥
तमञ्जलिभिरानम्रकिरीटतलकीलितैः ।
प्रणेमुर्धरणीपालास्तुरङ्गस्कन्धवर्तिनः ॥ ३१ ॥
आलोकशब्द मुखरैरस्याग्रे पादचारिभिः |
चोलकेरलपाण्ड्याद्यैर्वे त्वं प्रत्यपद्य ॥ ३२ ॥
आचारलाजैः पौराणां पुरन्ध्य्रस्तमवाकिरन् ।
अम्भसां बिन्दुभिः शुभैरभ्रमाला हवाचलम् ॥ ३३ ॥
अथ कम्पमहीपाल: कम्पयन् द्विपातां मनः |
प्रातिष्ठत दिशं भेजे मलयाच मुद्विताम् ॥ ३४ ॥
स नयन् महतीं सेनां व्यरुचद्र वीरकुञ्जरः ।
पयोदमालामाकर्षन् पौरस्त्य इव मारुतः ॥ ३५ ॥
रजोभिर्मुहुरु(द्भू?द्भू) तैर्लघूभवनि भूभरे ।
कथञ्चित् पृतनाभारं चक्षमे फणिनां पतिः ॥ ३६ ॥
प्रतापादित्यकीर्तीन्दुयुगपद्ग्रासलालसः ।
परागः परभूपानामुपरागोऽभवन्नवः || ३७ ॥
तस्य दिक्षु प्ररोहन्त्याः शतधा कीर्तिवीरुधः ।
विततान रजस्स्तोमः करीषनिकरभ्रमम् ॥ ३८ ॥
पांसुस्थगनलक्षेण पलायत रविः क्वचित् ।
भावियुद्धामरीभूतवीरोद्दलनशङ्कितः ॥ ३९ ॥
पृष्ठम्:मथुराविजयम्.djvu/५१
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति