राजः श्रीभोजस्तुल्यभावेन द्वित्रिघटिकापर्यन्तं विचिन्त्य विशेषानवधारणेन निद्रां गतः । प्रातश्चोत्थाय कृताह्निकः सभामगात् । तत्र च सिंहासनमलङ्कुर्वाणः श्रीभोजः सकलविद्वत्कविमण्डलमण्डनं कालिदासमालोक्य 'सुकवे, इमां त्र्यक्षरोनतुरीयचरणां समस्यां शृणु ।' इत्युक्त्वा पठति- 'अप्रतिपत्तिमूढमनसा द्वित्राः स्थिता नाडिकाः।' इति पठित्वा राजा कालिदासमाह-सुकवे, एतत्समस्यापूरणं कुरु' इति । ततः कालिदासस्तस्य हृदयं करतलामलकवत्प्रपश्यंस्त्र्यक्षराधिकचरणत्रयविशिष्टां तां समस्यां पठति-देव,
स्नाता तिष्ठति कुन्तलेश्वरसुता वारोऽङ्गराजस्वसु-
द्यूते रात्रिरियं जिता कमलया देवी प्रसाद्याधुना |
इत्यन्तःपुरसुन्दरीजनगुणे न्यायाधिकं ध्यायता
देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थिता नाडिकाः ॥ ३०२ ॥
तदा राजा स्वहृदयमेव ज्ञातवतः कालिदासस्य पादयोः पतति स्म । कविमण्डलं च चमत्कृतमजायत ।
एकदा राजा धारानगरे विचरन्क्वचित्पूर्णकुम्भं धृत्वा समायान्ती पूर्णचन्द्राननां काञ्चिदृष्ट्वा तत्कुम्भजले शब्दं च कञ्चन श्रुत्वा 'नूनमेव तस्याः कण्ठग्रहेऽयं घटो रतिकूजितमिव कूजित' इति मन्यमानः सभायां कालिदासं प्राह-'कूजितं रतिकूजितम्' इति । कविराह-
'विदग्धे सुमुखे रक्ते नितम्बोपरि संस्थिते ।
कामिन्याश्लिष्टसुगले कूजितं रतिकूजितम् ॥ ३०३ ॥
तदा तुष्टो राजा प्रत्यक्षरलक्षं ददौ, ननाम च ।
एकदा नर्मदायां महाह्रदे जालकैरेकः शिलाखण्ड ईषद्भ्रंशिताक्षरः कश्चिद्दृष्टः । तैश्च परिचिन्तितम्-'इदमत्र लिखितमिव किञ्चिद्भाति । नूनमिदं राजनिकटं नेयम्' इति बुद्धया भोजसदसि समानीतम् । तदाकर्ण्य भोजः प्राह-'पूर्वं भगवता हनूमता श्रीमद्रामायणं कृतम् । तदत्र ह्रदे प्रक्षेपितमिति श्रुतमस्ति । ततः किमिदं लिखितमित्यवश्यं विचार्यमिति लिपिज्ञानं कार्यम् ।' जतुपरीक्षयाक्षराणि परिज्ञाय पठति । तत्र चरणद्वयमानुपूर्व्याल्लब्धम्-
'अयि खलु विषमः पुराकृतानां भवति हि जन्तुषु कर्मणां विपाकः ।