पृष्ठम्:भोजप्रबन्धः.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

   श्रीमन्विन्ध्यगिरे प्रसीद सदयं सद्यः समीपे भव ।
  इत्थं दूरपलायनश्रमवतीं दृष्ट्वा निजप्रेयसीं
   श्रीमन्भोज तव द्विषः प्रतिदिनं जल्पन्ति मूर्छन्ति च ॥ १७२ ॥

 तस्मिन्नेव क्षणे कश्चित्सुवर्णकारः प्रान्तेषु पद्मरागमणिमण्डितं सुवर्णभाजनमादाय राज्ञः पुरो मुमोच । ततो राजा सीमन्तकविं प्राह-'सुकवे, इदं भाजनं कामपि श्रियं दर्शयति ।' ततः कविराह-

  धारेश त्वत्प्रतापेन पराभूतस्त्विषांपतिः।
  सुवर्णपात्रव्याजेन देव त्वामेव सेवते ॥ १३ ॥

 ततस्तुष्टो राजा तदेव पात्रं मुक्ताफलैरापूर्य प्रादात् ।

 कदाचिद्राजा मृगयारसेन पुरः पलायमानं वराहं दृष्ट्वा स्वयमेकाकितया दूरं वनान्तमासादितवान् । तत्र कञ्चन द्विजवरमवलोक्य प्राह- "द्विज, कुत्र गन्तासि ।'
द्विजः-'धारानगरम् ।'
भोजः-'किमर्थम् ।
द्विजः-'भोजं द्रष्टुं द्रविणेच्छया । स पण्डिताय दत्ते । अहमपि मूर्खं न याचे ।
भोजः-विप्र, तहिं त्वं विद्वान्कविर्वा ।
द्विजः-महाभाग, कविरहम् ।
भोजः-तर्हि किमपि पठ ।
द्विजः-भोजं विना मत्पदसरणिं न कोऽपि जानाति ।
राजा-ममाप्यमरवाणीपरिज्ञानमस्ति । राजा च मयि स्निह्यति । त्वद्गुणं च श्रावयिष्यामि । किमपि कलाकौशलं दर्शय ।
विप्रः-किं वर्णयामि ।
राजा-कलमानेतान्वर्णय

विप्रः-'कलमाः पाकविनम्रा मूलतलाघ्रातसुरभिकल्हाराः ।
 पवनाकम्पितशिरसः प्रायः कुर्वन्ति परिमलश्लाघाम् ॥ १७४ ॥

राजा तस्मै सर्वाभरणान्युत्तार्य ददौ ।

 ततः कदाचित्कुम्भकारवधू राजगृहमेत्य द्वारपालं प्राह-'द्वारपाल, राजा द्रष्टव्यः। स आह–'किं ते राज्ञा कार्यम्'। सा चाह-'न तेऽभि-(१) सूर्यः।