अतिरभसकृतानां कर्मणामाविपत्ते-
र्भवति हृदयदाही शल्यतुल्यो विपाकः ॥ २४ ॥
किञ्च-येन सहासितमशितं हसितं कथितं च रहसि विश्रब्धम् ।
तं प्रति कथमसतामपि निवर्तते चित्तमामरणात् ॥ २५ ॥
किञ्च-अस्मिन्हते वृद्धस्य राज्ञः सिन्धुलस्य परमप्रीतिपात्राणि महाचीरास्तवैवानुमते स्थिताः, ते त्वन्नगरमुल्लोलकल्लोलाः पयोधरा इव प्लावयिष्यन्ति । चिराद्बद्धमूलोऽपि त्वयि प्रायः पौरा भोजं भुवो भर्तारं भावयन्ति।
किञ्च-सत्यपि च सुकृतकर्मणि दुर्नीतिश्चेच्छ्रियं हरत्येव ।
तैलैः सदोपयुक्तां दीपशिखां विदलयति हि वातालिः ॥२६॥
देव, पुत्रवधः क्वापि न हिताय ।'इत्युक्तं वत्सराजवचनमाकर्ण्य राजा कुपितः प्राह-- त्वमेव राज्याधिपतिः, न तु सेवकः।
स्वाम्युक्ते यो न यतते स भृत्यो भृत्यपाशकः ।
तज्जीवनमपि व्यर्थमजागलकुचाविव' ।। २७ ॥
इति । ततो वत्सराजः 'कालोचितमालोचनीयम्' इति मत्वा तूष्णीं बभूव ।
अथ लम्बमाने दिवाकर उत्तुङ्गसौधोत्सङ्गादवतरन्तं कुपितमिव कृतान्तं वत्सराजं वीक्ष्य समेता अपि विविधेन मिषेण स्वभवनानि प्रापुर्भीताः सभासदः । ततः स्वसेवकान्स्वागारपरित्राणार्थं प्रेषयित्वा रथं भुवनेश्वरीभवनाभिमुखं विधाय भोजकुमारोपाध्यायाकारणाय प्राहिणोदेकं वत्सराजः । स चाह पण्डितम्-'तात, त्वामाकारयति वत्सराजः' इति । सोऽपि तदाकर्ण्य वज्राहत इव, भूताविष्ट इव, ग्रहग्रस्त इव, तेन सेवकेन करेण धृत्वानीतः पण्डितः । तं च बुद्धिमान्वत्सराजः सप्रणाममित्याह— 'पण्डित, तात, उपविश । राजकुमारं जयन्तमध्ययनशालाया आनय' इति । आयान्तं जयन्तं कुमारं किमप्यधीतं पृष्ट्वानैषीत् । पुनः प्राह पण्डितम्-- 'विप्र, भोजकुमारमानय' इति । ततो विदितवृत्तान्तो भोजः कुपितो ज्वलन्निव शोणितेक्षणः समेत्याह-'आः पाप, राज्ञो मुख्यकुमारमेकाकिनं मां राजभवनाद्बहिरानेतुं तव का नाम शक्तिः इति वामचरणपादुकामादाय भोजेन तालुदेशे हतो वत्सराजः। ततो(१) पवनसमुदायः। ( २ ) कुत्सितभृत्य इत्यर्थः।