सामग्री पर जाएँ

पृष्ठम्:भावप्रकाशिका-भागः २.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८६ श्रीरङ्गरामानुजमुनिविरचेिता पद्यत इतेि द्रष्टव्यम् । सत्यवदनपक्ष एवेति । पूर्वपक्ष्यभिमत इति शेषः । “ वाक्यस्वरसद्धिमन्यत्वं न अधिव्य " मित्यस्य विप्रकृष्टतया अत ३शब्दस्यसन्निहितोपाध्यन्तरपरमर्शित्वं छिष्टमित्यस्वरसादाह - यद्वा ऽतिवादि शब्दस्येति । यौगिकत्वायोगिकत्वविवादस्य कण्ठतः प्रस्तुतत्वाभावादाह यद्वाऽक्रिान्तेतेि । ननु अनिवाद्विश्वं हि वस्त्वन्तरत् पुरुषार्थतया अतिक्रा न्तस्वोपास्यवस्तुवादित्वमित्युक्त्वेऽपि अतिक्रान्तस्वोपास्यवस्तृवादित्वमतिवादिशब्द प्रवृत्तिनेिमेतमेित्येवं प्रागनिर्दिष्टतया कथमतश्शब्देन प्रवृत्तिनिमित्तत्वस्य परामर्श इत्याशङ्कयातिवादित्वमतिक्रा तम्बोपास्यवस्तुवादित्वमेित्युक्त्वे अतिवादिशब्दस्य तदेव प्रवृत्तिनिमित्तमित्यस्यार्थस्य फलेिततया फलेितस्यार्थस्यात)ब्दपरामर्श उपपन्न इत्याह-अयमर्थः पूर्वोक्तार्थफल इति । फल इति पुलिङ्गपाठ: साधुः । तस्यायमर्थ अतिक्रान्तस्वोपास्यवस्तुवादित्वस्यातिबदिशब्दप्रवृत्तिनिमित्तत्वरूपोर्थः पूर्वोक्तयौगिर्थ फ़ल इति । एवं चातिक्रान्तस्वोपास्यवादित्वोपपादने यौगि त्वोपपदकया पथैबस्यतीति अत एवेत्यादिवाक्यस्य यौगिकत्वो पपादनपरवं युक्तमिति भाव इति वदन्ति । अतिक्रात्तस्ोपास्यवस्तुवादित्वस्यैव प्रवृत्तिनिमित्तत्वादेव हीति । सत्य शब्दार्थस्य ब्रह्मण एव निरतिशयपुरुषार्थतया तद्वेदिन एवातिक्रान्तस्वोपास्यवस्तुवादित्व मस्तीति, ‘सत्यं त्वेव विजिज्ञासितव्यम् इति सत्यशब्दभिधेयं ऋखैव, उपास्यतय। उक्तम्; न तु वदितव्थतयेत्यर्थः । विांजेज्ञासितव्यपदास्वास्यं भवेदिति । ननु विज्ञानमति श्रद्धाकृतिषु, विज्ञानं त्वेव विजिज्ञासितव्यम्; विज्ञानं भगवो विजिज्ञास' इत्यादि प्वा त्रापि संपादनीयमित्येवार्थोऽस्तु । न च-विज्ञानादिषु विजिज्ञासितव्यमित्यस्य संपाद तिव्यमित्येवार्थोऽवश्यं वाच्यः ; अग्रे, 'यदा वै मनुते अथ विजानाति, यदा श्रद्द धति अथ मनुत ? इति तदुपायकीर्तनदर्शनात् । अत एव सत्यव्यतिरिक्तविषयाणि जिज्ञसितथ्यपदानि संपाद्यवाचिनीत्युत्तरत्र वक्ष्यतीति वाच्यम्--तहिं सत्येऽपि तथै वार्थोऽस्तु; अग्रे यदा विजानाति, अथ सत्यं वदतीति तदुपायकोर्तनदर्शनादिति चेत् – परमात्मनि प्रसिद्धस्य सत्यशब्दस्य परार्थप्रतिपादके वचसि लक्षणया प्रयोगस्यायुक्तत्वात्, सत्येनतिबदानीति तृतीयाया अयुक्तवात्, अतीत्युपसर्ग वैयथ्र्यात्, तुशब्दस्वारस्याच, 'सत्यं भगवो विजिज्ञास ! इत्यत्रापि सत्यवदनं