पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनि विरचित संस्थतास्तुये अनुवादमात्र 'मित्येवमर्थक्तया प्रयुक्तस्य परामर्श जैमिनिरचोदना दिनि सूत्रस्य न्याहतार्थत्वप्रसङ्गः । तथा हि सति ब्रह्मसंस्थताविधेरेव संन्यामविधिरूपत्वेन ऊर्ध्वरेतसामाश्रमन्य सिद्धत्वेन पूर्वपक्षसिद्धान्तयोरप्रवृत्तरिति द्रष्टव्यम् । अत्र परमहंसस्य शिखोपवीताद्यावश्यकत्व शतदूषण्यामाचायैरेव प्रपञ्चतमिति नाव प्रयत्यते । इति पुरुषार्थाधिकरणम् । (२) स्तुतिमात्राधिकरणम् २ तिमालमुपादानादिति चेन्नापूर्वत्वात् ३-४-२१. अनन्तराधिकरणद्वयमिति । पुरुषार्थाधिकरणापेक्षयेति शेष । भाष्ये परमः पराय इति । परमात्मप्रतीकत्वात् परमः । परस्य ब्रह्मणः अर्ध स्थान- महतीति पराध्यः । पूर्व सप्तानां रसानामिति । " एषां भूतानां पृथिवी रसः पृथिव्या आपो रसोऽपामोषध्यो रस ओषधीनां पुरुषो रसः पुरुषस्य वायसो वाच ऋग्रसः ऋचस्साम रसः सान्न उद्बोथो रसः" इति पृथिव्यादीनां सप्तानां पूर्व रसानां कीर्तितत्वादित्यर्थः । भाष्ये अत्र प्रतिपादितमुपासनपरत्वमित्यादि । नन्वस्मिन्नधिकरणे स एष रसानां रसतम इत्यादिवाक्याना उपास्यविशेषसमर्पकत्वमुत स्तुतिपरस्वमित्येव चिन्ता प्रक्रियते! न तु, ओमित्येतदक्षरमुद्रीथमुपासीतेत्यादिवावया- नामपि उपासनविधिपरत्वमस्ति नेति विचार: प्रवर्त्यते । तेषां वाक्यानामनुदाहृन. स्वादिति चेत् - मैवम् । रसलमादिवाक्यानामपि स्तावकत्वमिति पूर्वपक्षिणो द्वेधाऽभि- प्रायः -- अत्र उद्गीथमुपासीत इति नोपासन विधीयते । उद्घीयविधिसिद्धानुष्ठानौ- पयिकज्ञानसामान्यबाची उपासनशब्दः । अतोऽनुवाद एव । अतश्च रसतमादि- वाक्ये समभिव्यहनविध्यभावेन तदेकवाक्यतया स्तावकत्वाभावेन उद्गीथपोपस्थाषि- तक्रतुप्रकरणगतोगीविश्येकवाक्यतयैव रसतमादिवाक्यानां स्तावकत्वम् । न च स्तावकवाक्यानां स्तुत्यविधिसमभिन्याहारनियमोऽस्ति । एतद्राह्मणान्येव पञ्च वीषि याममानीताणि' इत्यतिदिष्टेष्वर्थवादेषु व्यभिचारादित्येकः पक्षः । 'उगीश्र- मुपासीत ' इत्युपासनाविधिमभ्युपेत्य तदेकवाक्यतया तत्स्तावकत्वम् ; नोपासनाविषय- -- व