पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८६८ श्रीरङ्गरामानुजमुनि विरचिता साम्यमिति तदर्थात् । इहैव विधिमाश्रयणमिति पर्यवसिनोऽर्थः । केचित्तु परामर्श- पक्षे विधानपक्षे चेति भाष्यस्य मानान्तरप्रातपरामर्शपक्षे मानान्तर विहितपरामर्शपक्ष चेत्यर्थः । न खत्रैव विधित्वपक्ष इत्यर्थः । तस्य पक्षस्योत्तरसूत्रप्रतिपाद्यत्वाभावात् । न च अस्मिन् सूत्रे पक्षद्वयस्याप्यनुपक्षेपे, 'विधिर्वा धारणवत् । इत्यत्र वाशब्दस्या- वधारणार्थत्वप्रतिपादकभाष्यासामञ्जस्यम् । पूर्वत्र पक्षद्वयोपक्षेप एवावधारणस्वार- स्यादिति वाच्यम् -- अप्रयोजकत्वादिति वदन्ति । भाष्ये तयो ब्रह्मचर्यमिति सर्वैशब्दैरिति । यद्यपि श्रुतौ ब्रह्मचार्याचार्यकुलबासीति ब्रह्मच रिशब्द व श्रूयते- तथापि ब्रह्मचारिधर्म एवं ब्रह्मचर्य(चारि )शब्देनाभिधीयते इत्युत्तरमा यानु- रोधात् ब्रह्मचारिशब्दस्य ब्रह्मचर्यपरत्वात् ब्रह्मचर्यमित्युक्तमिति द्रष्टव्यम् । भाष्ये ब्रह्मचर्यतपसोगृहस्थस्यैव सम्भवादिति । यज्ञोऽध्ययनमिति निर्दिष्टस्य गृहस्थस्य सम्भवादित्यर्थः । अन उपकुर्वाणेऽपि सम्भवात गृहस्थस्यैवेत्येवकारोऽनुपपन्न इति चोध निरस्तम् । एवकारस्येतरव्यवच्छेदकत्वाभावात् । भाष्ये त्रित्वेन संगृह्येति । अन स्कन्धशब्दो यद्याश्रमपरो न स्यात् , ततो यज्ञादीनां प्रातिस्विकोत्पत्तीनां किमपेक्ष्य नित्वसख्या व्यवस्थाप्यते । एकैकाश्रमोपगृहीतत्वे त्वाश्रमधर्माण त्रित्वाच्छक्यं त्रित्वे व्यवस्थापयितुमिति आश्रमप्रतिज्ञोपपतिरिति भावः । विधिर्चा धारणवत् ३-४-२०, भाष्ये दिष्टाग्निहोत्र इति । मृताग्निहोत्र इत्यर्थः । दिष्टाग्रिहोत्रे श्रयते, उपरि हि देवेभ्यो धारयती' ति । एषोऽनुवादः, वर्तमानापदेशात् हि- शब्दाचाचाराचोपरिधारणप्राप्तेः । हविषोऽभ्यर्हितदव्यत्वात् प्रच्छादनं येन कन- चित् प्राप्नोति । ततः, 'शुन्दण्डे समिधमुपसंगृह्यानुद्रवती ति वाक्यान्तरप्रतिपत्ती समिन्निग्रम्यते । तस्मादनुवाद इति प्राप्ते - समिधो हविराच्छादनासमर्थत्वात् झुग्दण्ड इत्यनेन हविषः प्रान्देशस्य प्राप्तत्वेऽपि हविष उपयप्राप्तस्वाद्विधिरिति स्थितं तृतीये (३-४-६)। 'वीरहा वा एष देवानां योऽग्नि द्वासयते' इति एपेतिच्छेदः । भाष्ये अविरक्तविषया एवेति । गृहस्थस्य विहिते उत्सर्गेष्टिपूर्व कत्यागे दोषा- दर्शनादविहितत्यागविषयैव दोषश्रुतिः। ततश्च प्रविजिषोर्विरक्तस्य त्यागविधिसद्भावात् बिहिलस्त्यागो न दोषावहः । न च कर्मानधिकृतान्धपङ्गबधिरादिविषया पारित्राज्य-