पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ श्रीरङ्गरामानुजमुनिविरचिता कृताय विजितायाधरेऽयः संयन्त्येवमेनं सर्वं तदभिसमेति यत्किच प्रजाः साधु कुर्वन्ति यतद्वेद यस वेद स मयैतदुक्तः ? इति हि श्रुतिवाक्यम् । इदं च, “यो नु कथं सयुवा क ?' इति हंसेन रैकस्वरूपं पृष्टस्य हंसन्तरस्य प्रतिवचनम् । यथा कृतायविजिताय ! कृतो नाम अयो छूतसमये प्रसिद्धः । स यदा जयति, तदा इतरे त्रिद्येकाङ्कः अधरे अय: संयन्ति = संग्च्छ ते = अन्तर्भवति । चतुरङ्गे अये कृते त्रिछेकाङ्कानां सत्र विद्यमानत्वात् तस्मिन्नन्तर्भवन्तीत्यर्थः । एवमेनं रैकं कृतायस्थानीयं सर्वं तदभिसमेति-संगच्छते, यकिंच लोके सर्वाः प्रजाः साधु शोभनं कर्म कुर्धनि =धर्मजातं कुर्वन्ति, तत् सर्वमेतस्य धर्मेऽन्तर्भवति । तस्य फले सर्वप्राणिफलमन्तर्भवतीत्यर्थः । यस्तद्वेत्यादि । अत्रायमन्वयः- यस वेद । स रैको यद्वेव वेद, तद्वेवं योऽन्योऽपि वेद, एनमपि रैकमिव सर्वशुभधर्मजातफल मध्यमसमेतीयनुषङ्गः । स मयैतदुक्तः । स रैकः मया एतत् इथमुक्त इत्यर्थ इति रैकवेद्यब्रह्मावेनेतृमाहात्यकथनाद्वैश्य ब्रह्माणश्च महाप्यं कथितं भवतीत्यभि प्रायेणांचा ; ‘रैकस्तद्वेयं ब्रह्म चोभयं मयोक्तमित्यर्थ'इत्युक्तम् । न तु स मयैतदुक्त इति शब्दार्थतयेति द्रष्टव्यम् । असकृदावृत्तेव्यैवहितत्वशङ्कनिरासार्थमिति । 'मासस्य द्विधीते इति न्यायेन विच्छिद्य विच्छिद्य कृतस्ते ध्यानत्वमिति भावः । ... रागादीनां जीवधर्मत्वेनान्तःकरणधर्मत्वाभावादित्यस्वरसादाह – यद्वा मञ्चाः क्रोशन्तीतिवदिति । “स व एव आत्मा हृदि । तस्यैतदेवं निरुक्तं हृद्ययमिति । तस्माद्यम्" इति वाक्यमभिप्रयन्नाह-हृत्स्थानमयतीति । हृदयग्रन्थिशब्दे कर्मधारयमभिप्रयन्नाह-हृदयशब्दोपलक्षितमिति । ननु “ तस्मिन् दृष्ट परावरे ! इत्येतत् उपथिदशायां शानस्य दशनरूपतां कथं गमयेत् ? तत्रयदर्शनशब्दस्य 'शास्त्रार्थदशीं! इत्यादवि ज्ञानसामान्यषरताप्युपतेत्यित्राह – दर्शनशब्दस्य ज्ञानसामान्यपरत्वसंभवेऽपीति । श्रवणादीनां पृथगुक्तत्वादिति । ततश्च सामन्यवाचिपदस्य वैयथ्यैप्रसङ्ग इति भावः । न चैवं निदिध्यासनदर्शनोरपि, “न वायुक्रिये पृथगुपदेशान् ! इति न्यायेन पार्थक्यापत्तिः; परमात्मनो दर्शना 1. एतद्वाक्यार्थविचारः उपनिषत्परिष्कारे द्रष्टव्यः ।