पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८१ ोको न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निवर्तन्ते ’ इति प्रयोगानुसारेण जन्मजरादीनामपि पापशब्दवाच्यत्वं स्यात् । तनश्च । ५पहतपाप्मे । त्यनेनैत्र जरा दीनां युदस्तत्वात् ' विभरं विमृत्यु ' रित्याद्विना पुन्ध्युदासबैफल्यं स्यादिति चेन्नः अपहतपाप्मे ? ति वाक्ये पाप्मशब्दस्य गोबलीवर्दन्यायेन जरादिव्यतिरिक्तपाप पत्वात् । न च शोकादिषु पाप्मशब्दस्याभुस्यत्वेऽपि सुकृतदुष्कृतयोः प्रवृत्ति निमित्तसम्भवान्न मुग्यत्वं त्याज्यमिति लघुसिद्धान्तटीकाविरोध इति वाच्यम् तृभ्याभ्युपेत्यवादत्वेनादोषत्वात् । केचित्तु तद्विरोधादिदमेवान्यपरतया व्याख्येयमिति वदन्ति । ननु पाप्मशष्टादस्य सुकृतसाधारणपरस्त्रसमर्थनं मुधा । पाप्मशब्दस्य लोक प्रसिद्धयनुरोधेन दुष्कृतमात्रपरत्वे पापवश्यतागन्धराहित्यरूपस्य तस्य जीवेऽसत्वेन जीवव्यावृत्तिः सिध्यतीति चेत् – सत्यम् । अथापि वस्तुस्थित्यनुसारात् सुकृत साधारण्यमुपपादितम् । अपहृतपाप्मशब्दोऽसङ्कोचादिति । “सर्वे पाप्मानोऽतो निवर्तन्ते अपहृतपाप्मा द्वेष ब्रह्मलोक ' इति पापनिवर्तकत्वस्यापहृतपाप्मशब्दप्रवृति निमित्तया श्रुतावेवाविष्करणादिति द्रष्टव्यम् । नन्वहतपाप्मशब्दो यथा तथा वास्तु। प्रकृतस्तु पाप्मोदितशब्दो न तादृशार्थकः प्रमाणाभावादिति चेन्न --अत्रापेि 'उदेि हवै सर्वेभ्यः पाप्मभ्यो य एवं वेद ? इति परपापनिवर्तकत्वप्रतीत्यविशेषादिति ध्येयम् । केचित्तु – अपहतपाप्मशब्दोऽसङ्कोचेन स्वस्मिन् परत्र च पापघातकत्वं वदतीति चेत्, जीवस्य कदापीडक्त्वाभावेन परिशुद्धात्मविषयस्यापहतपाप्मशब्दस्या प्ययमेवार्थ इत्युत्तरग्रन्थविरोधप्रसङ्गात्, कर्मवश्यतांगन्धरहितत्वमित्यर्थ इति भाप्य विरोधाचेद्भतिवादमात्रमिति वदन्ति । नन्वेवं नित्याविभूनापहतपाप्मत्वादिगुणानां नित्यमुक्तानामपि अन्तरादित्यविद्याविषयत्वप्रसङ्ग इति चेन्न – अनन्याधीनमपहृत पाप्मत्वमिह विवक्षितम् ! तच न नित्येषु सम्भवति । तेषाभपहतपाप्मत्वस्य भगव रसङ्कल्पाधीनत्वादिति भावः । हिंसारूपधात्वर्थासम्भवादिति । भरणोद्देश्यक मरणानुकूलव्यापारस्यैव हिंसात्वादिति भावः । विषशब्दस्येवेति । यद्यपि विषशब्दो विषत्वजातिवचनो न सप्रतियोगिकः । “ न हि गो ; किञ्चित्प्रत्यगौ इति न्यायेन कस्यचिद्वस्तुनः कञ्चित्प्रति विपत्वम्, कञ्चित्प्रति न विषत्वमिति हि न सुवचम् – तथापि यस्य यन्मरणसाधनम्, तस्य तद्विषमिति कृत्वेदमुक्तमिति द्रष्टव्यम् ।