पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्पातै " इत्यस्मिन्नर्थे “गोठ्यचः' इति भोगशब्दाछत्प्रत्ययः; न तु “ऋलोण्येत्। इति यदन्तम्, तथात्वे भोगस्यानादीनां भोग्यदान्देन परिग्रहानापतेरिति भा: । व्याख्येयपदव्याख्यानार्थमिति ! “वस्तुषु ?' इत्यादिपदस्याव्याख्या तत्वात् तदर्थमित्यर्थ । व्याख्येयं पद्मुदाहरतीतेि । “भोक्ता भोग्यम्' इति श्रुतिगतभोग्यपदमित्यर्थः । हेतुरनुक्त इति । यद्यपि “ज्ञानस्वरूपः' इत्यनेनैवास्ति शब्दवाच्यत्वे हेतुरुक्तः, तथापि भाष्ये नोक्तः । अत एव पूर्वंश्लोकव्याख्याने , “इतरदतिशब्दाभिधेयम्' इत्युक्तम्, न तु तत्र हेतुरुपन्यस्त इति भावः। प्रयोजक्रशिथेति । अस्तिनातिपदप्रवृत्तिनिमित्तशिक्षेत्यर्थः । अत्राभिधेयमिति । अस्मिन् क्षेोके अतिशब्दस्यास्तशब्दाभिधेय एवार्थ इत्यर्थः । स्वभोग्यभूतमचि द्वस्तु, श्रतिक्षणमन्यथाभूतमालक्ष्यते इतेि भाप्ये प्रतिक्षणमन्यथाभूतं वस्तु भोग्यत्वेनालक्ष्यते, भोग्यमचिद्वस्तु प्रतिक्षणमन्यथात्वेनालक्ष्यत इत्युद्देश्यविधेय भावभेदेनार्थद्वयसंभवमभिप्रेत्य द्वेधापि व्याचष्ट-अस्थिर इत्यादिना । चाक्षुपज्ञाने प्रयोगप्राचुर्यादिति । यद्यपि चक्षुषा प्रत्यक्षेणोपलक्ष्यते इत्युक्तावपि न दोष तथापि चाक्षुषज्ञानतिरिक्तप्रमाणान्तरसंग्रहायानुभूयत इति व्याख्यातमिति द्रष्टव्यम् । श्रेोकव्याख्यानपरिसमाप्तिमिति । अस्यां योजनायामिति शेषः । अयं भावः-- आलक्ष्यते अनुभाव्यते भुज्यत इति वा, भोग्यत्वेनालक्ष्यत इति वा पूर्वयोज नायामेतादृशाप्रसिद्धार्थप्रदर्शनपरतया 'इत्यर्थः इत्यस्य साफल्यं संभवेत् । अस्यां तु योजनायामालक्ष्यत इत्यस्यानुभूयत इत्यर्थे प्रसिद्धिसत्वेन ' इत्यर्थः । इत्यस्य वैयथ्र्यात् समाप्तिद्योतकत्वमेव । अस्मिंश्च पश् एवंसतीत्युतरभाष्यं लोकद्वयाभिप्राय कथनपरम् । एतदेवाभिप्रेत्य वक्ष्यति--अथवा श्लोकद्वयाभिप्रायमाहेति । पूर्वयोजनायां तु 'इत्यर्थः' इत्यस्य समाप्तिद्योतकत्वाभावात् 'एवंसति' इत्युत्रभाष्यं ब्रूहीत्यादिः पदार्थकथनपरम् । एतत्यक्षाभिप्रायेण बृहीत्यादेरर्थमाहेत्यादिग्रन्थ इति । अतः श्रो व्याख्यानसमाप्तौ बृहीत्वाद्यर्थकथनं विरुद्धमिति न चोदनीयम् । अतिशब्दार्थ मित्यादि विशेषणं सामथ्यैसिद्धतयेति । न तु “वस्त्वति किम्' इति शब्दाभिधेयतया, तलातिशब्दस्य भवत्यर्थकत्वादिति भावः । वस्तुशब्दतुल्यत्वं न शङ्कनीयमिति । “ बस्त्वति किम्' इत्थन्न वस्तुशब्दस्येत्यर्थः । यद्वाति