पृष्ठम्:भारतानुवर्णनम्.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रम् अन्तर्भवति । तत्रोत्तरकाण्डविचारशास्त्रम् उत्त- रमीमांसा | सा च समनन्तरम् उक्ता । पूर्वकाण्डविचारशास्त्रं तु पूर्वमीमांसा भवति । यज्ञकर्मणां वेदोक्तानां तत्त्वम् असन्दिग्धम् अविपर्य स्तं च ग्राहयितुं जैमिनिमुनिस्तां सुत्ररूपेण प्रणिना- य । तत्र सहस्रं न्याया निपुणम् उपन्यस्ताः सन्ति । तान् न्यायान् सर्वाणि शास्त्राणि युक्तिगौरवाद् अनु- सरन्ति । इदमपि शास्त्रम् अतिविपुलतां प्रापितं व्या ख्यातृपरम्परया । अस्या भाष्यकारः शबरस्वामी । वार्त्तिककारः कुमारिलभट्टः ॥ व्याकरणम्. , इद नाम व्याकरणस्य तत्त्वं, यत् कतिपयान् घातून अवलम्ब्य सहस्रशः पदानि साध्यन्ते । एतद् अनेकवर्षसहस्रेभ्यः प्रागेवार्यैर्विदितम् आसीत् । इदं शास्त्रम् अद्भुतया भङ्गया सप्तविशे कलिवर्षशतके पा- णिनिमुनिः सूत्ररूपेण प्रणिनाय । अस्य मूलं शाक- Digitized by Google