सामग्री पर जाएँ

पृष्ठम्:भारतानुवर्णनम्.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६४


 अथातिवृद्धो दशरथः सर्वैर्गुणैरुपेतं प्रियं ज्येष्ठं पुत्रं रामं राज्येऽभिषेचयितुं मतिं चकार । किन्तु तस्य स मनोरथः कैकेय्या विफलित आसीत् । पुरा हि क्वचन युद्धे कृतोपकारायै तस्यै परितुष्टेन दशरथेन द्वौ वरौ यथेच्छवरणीयौ प्रतिश्रुतौ । तयोरेकं वरं 'भरतो राज्येऽभिषेक्तव्य' इति, अन्यं वरं 'चतुर्दशवर्षाणि वन्यवृत्त्या रामेण वने वर्तितव्यम्' इति च सा साम्प्रतम् अवृणीत ।

 राज्यमनिच्छतः स्वभक्तस्य भरतस्य प्रार्थनया राज्याभिषेकायात्मनः पादुके प्रतिनिधाय रामः सह सीतया लक्ष्मणेन च पितृवाक्यगौरवाद् वनं प्रविवेश । दशरथस्तु पुत्रवियोगम् असहमानो भूलोकवासम् अत्यजत् ।

 वने चरन्तौ रामलक्ष्मणौ कापि कामुकी राक्षसी शूर्पणखा नाम कदर्थयामास । कदर्थनासंरम्भम् असहमानो मायाविन्यास्तस्या नासां लक्ष्मणश्चकर्त्त ।

 अथ कुपितया तया चोदितस्तद्भ्राता रावणो