पृष्ठम्:भारतानुवर्णनम्.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५


आमुखात्‌ सिन्धुनदे नौः ९४२ [१] कोशान्‌ उत्सर्पति ॥

सरस्वती [२]-’सरस्वत्याः' प्रभवः शुतुद्रियमुनयोर्मध्यवर्ती ` प्लक्षप्रस्रवणो [३] ' नाम गिरिः । कुरुक्षेत्रस्योत्तरा [४] सीमास्याः सरणिर्भवति । अस्यां वर्षास्वेव स्रोतो लक्ष्यं भवति । अन्ते चैषा मरुसिकतासु अदर्शनं र्प्राप्नोति ।

अस्याः पावनानि तीर्थानि महर्षिभिर्भक्त्या सेवितानि । अस्या माहात्म्यं महाभारते बलरामतीर्थयात्रायाम्‌ उद्‌घुष्यते । ऋचोऽप्यस्या महिमानं स्तुवन्ति ।

अस्याः सोदर्या ’दृषद्वती [५]’ नाम कापि नदी हास्तिनिप ~ ’हास्तिनपुरात्‌' [६] पश्चिमोत्तरतो विद्यमानस्य अम्बालापुरस्य [७] परिसरे प्रवहन्त्यनया संयुज्यते ।

अस्त्यन्या सरस्वती [८], यार्बुदाद्‌ [९] उत्पद्य पाश्चमागब्धिम्‌ आविशति ॥

  1. द्विचत्वारिंशदाधिकानि नव शतानि.
  2. Saraswati River.
  3. This is mentioned in the Mahabharata.
  4. Of Thaneswar
  5. Caggar River.
  6. हास्तिनपुरम्=Hastinpur
  7. अम्बाला=Ambala
  8. This Saraswati flows through Guzarat.
  9. From Aravalli hill.