पृष्ठम्:भारतानुवर्णनम्.djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति


 यत एवम् अयं पर्वतो हिमस्य स्थानं भवति, तत उच्यते हिमालय इति । अस्य 'हिमवान्' 'हिमाद्रिः' इत्यपि नामान्तरम् ।

 एष तुङ्गतया दीर्घतया विस्तारेण वृक्षाणाम् ओषधीनां च सम्पदा प्राण्युपकारेण च सर्वान् पर्वतान् अतिशेते । अतोऽस्य पर्वतराज इति प्रसिद्धिः ॥

 कार्तस्वराकरः -- कारकोरनामा [१] पर्वतः कश्मीरदेशस्योत्तरेण तिष्ठति । अयमेव 'कार्तस्वराकर' इति नाम्ना व्यवहृतः सम्भाव्यते । अस्य दक्षिणत आसन्ने प्रदेशे 'बाल्टि' [२]. इति व्यपदिश्यमाने कार्तस्वरम् उत्पद्यते ।

 अस्य शृङ्गाणि बहूनि सन्ति । तेषु मुख्यं शृङ्गम् ओन्नत्ये हिमालयस्य प्रधानशृङ्गात् किञ्चिदरम् । ध्रुवदेशाद् [३] अन्यत्रास्मिन्नेव पर्वते हिमसंहतेः सम्पद् भूयिष्ठा दृश्यते ॥


  1. Modern name 'Karakora' is believed to be a corrupt form of ' कार्तस्वराकर' spoken of by the commentator of विष्णुपुराण. कार्तस्वराकर means ' A mine of gold
  2. Bolti or Little Tibet
  3. ध्रुवदेशः=Polar region.