पृष्ठम्:भारतानुवर्णनम्.djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५९ अस्ति तावद् एषां बुद्धिः अस्ति स्वदेशवृ- त्तिषु विदेशवृत्तिषु च गुणग्रहणम्; अस्त्यभ्युदयोपा- यानां विज्ञानम्; सन्ति च पुरुषकारमार्गदर्शिनो यौ- रोपाः सहायाः । सम्प्रति सत्याम् इयत्यां सामग्रीसम्पदि यदि हिन्दवो वर्णानाम् एककुडुम्बतां स्मृत्वा जात्युत्कर्षा- पकर्षमूलाम् अवहेलाम् इर्ष्या च परस्परस्मिन् सस्ने- हवृत्त्या वर्जयन्त आलस्यं जह्युः, तर्ह्यसंशयम् आङ्ग- लसाम्राज्येन सुकरं भवेद् अनश्वरं भारतस्य क्षेमम् ॥ इति भारतानुवर्णने 1. शाश्वतम् । आधुनिकस्थितिप्रकरणम् । June समाप्तोऽयं ग्रन्थः । शुभं भूयात् Digitized by Google