पृष्ठम्:भारतानुवर्णनम्.djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५३ इन्द्रजालम् -- अपरे कौतुककाराः पश्यत्सु प्रेक्षकेषु किमपि वस्तु सन्निधापयन्ति, अन्तर्धापयन्ति च । किन्तु सन्निधानद्वारम् अन्तर्धानद्वारं वा सूक्ष्म- दर्शिनापि न शक्यम् उपलब्धुम् । 6 कतिपयवर्षेभ्यः प्राक् कश्चित् कौतुकी सद- सि कौतुकानि दर्शयन् सुवर्णनाणकान् कांश्चिद् 'उ' त्तरीयप्रान्तेऽवच्छाद्य रक्ष' इत्युक्त्वा मम हस्तेऽर्पित- वान् । अतीतेषु पञ्चषेषु क्षणेषु 'तान् नाणकान् प्र त्यर्पय' इति स माम् अवादीत् । उत्तरीयग्रन्थौ च करघृते मया सद्योऽवमोचितेऽहं सदस्याश्च नाणकम् एकमपि न द्रष्टुम् अलभामहि । एवम्प्रायं कौतुकम् इन्द्रजालम् आहुः ॥ हिन्दुबाला:. विद्याभ्यासः -- अद्यत्वे हिन्दुबालाः श्रद्धया विद्याम् अभ्यस्यन्ति । तेषु बहवो देश्यभाषाम् आ- ङ्गलभाषां चाधीयते । संस्कृतमप्यधीयाना बालास्तत्र- तत्र वर्तन्ते । वेदम् अपि सलक्षणं केऽपि परिशील- Digitized by Google