पृष्ठम्:भारतानुवर्णनम्.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४२ तत्र गोधूमेतराणि यानि धान्यानि षष्टिका- दीनि, तत्प्रधानं नानारसं शाकभूयिष्ठम् अभ्यवहारं दाक्षिणात्या आद्रियन्ते ; औत्तरास्तु गोधूमप्रधानं म- धुरमुख्यम् उत्सर्गतः स्पृहयन्ति । दक्षिणापथे केषुचिद् देशेषु बहुदिवसपूर्वसि- तयात्यम्लम् अन्नम् अन्नरसं चावरजातयो जना अ किञ्चना वा बहुलम् उपयुञ्जते । ब्राह्मणान् शूद्रेष्वभिजातान् बल्लालादींश्चाप- हायान्ये हिन्दवो मांसं भुञ्जते; मत्स्यं च । क्षत्रियवै- श्येष्वपि केचिद् मांसम् उपयुञ्जते, केचिन्न । केरलेषु क्षत्रिया नैव मत्स्यमांसे उपयुञ्जते ॥ कृषिः कर्षकाच जनपदेषु पर्वतांनाम् उपत्यकास्वधित्यकासु च बहुप्रकाराः कृषयो भवन्ति । कृष्याश्च भूमयस्त्रिविधा भवन्ति – काश्चिन्न- दीमातृकाः, यासु नदीजलैव्रहयः सम्पद्यन्ते । काश्चित् 1. षष्टिकं षष्टिरात्रेण पच्यमानं धान्यम् आदिर्येषां तानि । Digitized by Google