पृष्ठम्:भारतानुवर्णनम्.djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४० मेलैरन्नपानै: शुद्धवातसम्पदा च द्विपाश्चतुष्पदाम् आ- रोग्यायापि सम्पद्यते । नगरेषु पुनर्जनसम्बाधात् प्रा- येण दुर्लभा भवन्ति ग्रामसुलभा एवञ्जातीयका गुणाः ॥ गृहाणि. गृहस्य विस्तार उत्सर्गतश्च॑तुर्हस्तावरो विंश- तिहस्तोत्तमश्च भवति । दैर्घ्यं तु तस्य परश्शतैर्हस्तै- मितं भवति । गृहस्य पटलं प्रवणाकारं तालपत्रैः के- रपत्रैर्धान्य स्तम्बैस्तृणविशेषैष्टविशेषैर्वा विरच्यते । अल्पवृष्टिषु देशेषु गृहस्योर्ध्वावरणम् इष्टका चूर्णनिब- द्धं समतलाकारं क्रियते । बहुष्टिपातेषु केरलादिषु देशेषु पुनस्तथाविधम् ऊर्ध्वावरणं प्रायेण वर्ज्यते । कुट्टिमो द्वारम् अन्तःकुट्टिमो विस्तीर्ण वास- गृहं भुक्तिशाला महानस इति क्रमेण गृहांशानां स- निवेशः । महानसात् परतोऽनतिदूरे गोष्ठस्य स्थितिः । ततो बहिर्देशः । गृहस्यैकोपरिभूमिका सामान्यतो भवति । सा 1. Measuring four cubits at the least. 2. Measuring twenty cubits at the greatest. Digitized by Google