पृष्ठम्:भारतानुवर्णनम्.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४ देवकैङ्कर्यम्. -- देवालयः – भारते गणेशस्य सुब्रह्मण्यस्य स- रस्वत्या लक्ष्म्या गौर्या विष्णोः शिवस्य चालया वर्त- न्ते । रामकृष्णादीनां च विष्णोरवसारमूर्तीनां मन्दि- राणि सन्ति । केचिद् देवालयास्तनुरूपाः, केचिद् मध्यमरू- पाः, केचिद् अत्युनतेर्गोपुरैर्विमानैर्मण्डपैः प्राकारैश्चा- दुतशिल्पैरुपलक्षिता दृश्यन्ते । - देवप्रतिमाः – आलयस्य गर्भगृहे देवस्य प्र- तिमा मुखकरादिमती काचिद् अचले पोठे प्रतिष्ठा- पिता भवति । न च सा ततो विभक्तुं शक्या । एषा प्रायः शिलामयी कचिद् दारुमयी च भवति । शिव- स्य तु मूलप्रतिमा शिलालिङ्गाकारैव । मूलप्रतिमाया द्वितीयापि प्रतिमा रुचिरावयवसन्निवेशा देवालये स्यात् । इयम् उत्सवप्रतिमेत्युच्यते । इयं ताम्रमयी पैञ्चलोहमयी रूंप्यमयी वा भवति । स्वर्णमयी च 1. Divine service. 2. Tunples. 3. Ilols 4. सुवर्ग-रजत- ताम्र-रङ्ग-नागरूपाः पञ्च लोहाः 5. रूप्यम्=silver. Digitized by Google