पृष्ठम्:भारतानुवर्णनम्.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३२ एवं तावद् ईश्वरस्य तिस्त्रः पुरुषमूर्त्तयः सिं. डाः । तिस्र चैताः शक्तयस्तेषाम् आदिपुरुषाणां स्त्रि- यः कल्पिताः । सरस्वती लक्ष्मीगौरीत्येतासां नामा- नि । इत्थं त्रिषु मिथुनेषु सिद्धेषु गणेश: सुब्रह्मण्य इत्याद्यास्तेषां सन्ताना दिव्यपुरुषाः सिद्धाः, रामः कृष्ण इत्यादयश्चावताराः । सर्व एत आकारा नाम- गुणभेदेऽपि जगदीश्वरस्यैव सम्बन्धिनो भवन्ति । यं कमप्याकारम् ईश्वरस्य तृणे दारुणि शिलायां स्थले जले वायावौ सूर्ये वा चिन्तयताम् ईश्वरानुग्रहः सुलभ इति च हिन्दूनां विश्वासः । स भगवान् सर्वज्ञः सदा सर्वत्र सन्निहित इति हि ते षाम् अवधारणा । यो यो यां यां तनुं भक्त्या श्रद्धयाचितुम् इच्छति । तस्य तस्याचलां भक्ति तामेव विदधाम्यहम् ' ॥ इति खलु भगवान् गायति । एषां कल्पितपरिमाणानां (भगवद्गीता ) ध्याने परिचयमाने Digitized by Google