पृष्ठम्:भारतानुवर्णनम्.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४ दि सङ्गीतभङ्गया युक्ताः, तर्हि काव्यस्य माधुर्य किमु वक्तव्यम् । अस्य कर्ता जयदेवो नाम महाकविः । अयं त्रिचत्वारिंशे वर्षशतके वदेशाधिपतेर्लक्ष्मणसेनस्य राज्ञो राजधान्यां कविराज इति प्रसिद्ध आसीत् ॥ गुणाढ्यः -- प्रतिष्ठानपतेः शातवाहनस्य स- भां महाकविर्गुणाढ्यो भूषयाम्बभूवेत्युक्तम् अधस्तात् । अस्य कृतिः पिशाचभाषामयी चित्रार्था 'बृहत्कथा' नाम, यां भट्टबाणादयः स्तुवन्ति । अस्या ग्रन्थस- ङ्ख्यां लक्षाधिकाम् आचक्षते । भारतचारिणीनां मि थ्याकथानां बृहत्कथा नूनम् आकर: स्यात् । इत एव कथाः समुद्धृताः पञ्चतन्त्रे कादम्ब - र्या श्रीहर्षनाटकेष्वन्यत्र च । अस्याः संक्षेपं कथासरित्सागराख्यं काश्मीरकः १ सोमदेवभट्टः ४००६ तमस्य वर्षस्यासन्ने संस्कृतप द्यात्मना चकार । किन्त्वद्यत्वे बृहत्कथा नोपलभ्यते || 1 षडधिकचतुम्सहस्रतमस्य | Digitized by Google