पृष्ठम्:भारतानुवर्णनम्.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२ पांद्यन्ते । अत्र यावान् कथायां चमत्कारो, न तावान् वाक्येषु चमत्कारः ॥ भट्टबाणः -- भट्टबाणस्य कृती द्वे गद्यका- व्ये, 'हर्षचरितं ' ' कादम्बरी'ति । अत्र श्लेषम् उत्प्रे- क्षाम् अतिशयोक्ति चावलम्ब्य कविर्वाक्यजालम् अ भिवर्षति । अत्र संवादप्रकरणानि सर्वाणि शब्दतो- ऽर्थतश्च चमत्कारम् अतीव जनयन्ति । ‘ चण्डीशतकं' नाम देवीस्तोत्रम् अस्यैव कृतिः । अयं सूर्यशतककर्तुर्मयूरकवेर्जामातेति दोऽस्ति || प्रवा- . सुबन्धुः—'वासवदत्ता' नामाख्यायिका स- बन्धुकवेः कृतिः । एनां भट्टबाणो हर्षचरितेऽभिन- न्दति । अमुं महाकवि भट्टबाणस्य समकालम् आ चक्षते ॥ पञ्चतन्त्रम् – 'पञ्चतन्त्रं' बालेभ्यः सदर्थान अक्लेशेन बोधयन्तीभिः सरसाभिः कल्पितकथाभिः सान्द्रं ललितचूर्णकभूयिष्ठं च भवति । तच्च केनापि विष्णुशर्मनाम्ना पण्डितेन सङ्कलितम् । Digitized by Google