पृष्ठम्:भारतानुवर्णनम्.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साहित्यम्. काव्यं तावत् 'साहित्यम्' इत्युच्यते; काव्य- स्य लक्षणं तु 'साहित्यशास्त्रम्' इति । तदुभयं मि लितमपि 'साहित्यम्' इति व्यवहियते । अस्यामपि विद्यायाम् आर्याणां कूलङ्कषं विज्ञानम् आसीत् । ते ह्यर्थेषु शब्देषु च चमत्कारस्य महीयम- स्तनीयसो वा सूक्ष्माण्यपि स्थानान्यवर्जयन्तः साहि त्यविद्याम् अभिवृद्धेः परां कोटिं निन्युः ॥ काव्यस्वभावा:. काव्यम् – काव्यं नाम कवेः कर्मोच्यते । तद् गुरुलघुनियमवद्भिश्चतुर्भिः पादैरुपेतं चेत् पद्यं भ वति । अपादेन पदसन्तानेनोपेतं चेद् गद्यं भवति ॥ महाकाव्यम् – पद्यकाव्यं गिरिनगरसमुद्रा- दीनां वर्णनैरुपेतं बहुसर्गबन्धं चेद् 'महाकाव्यं' भन् वति; यथा रघुवंशादि । अतादृशं तु खण्डकाव्यं भ वति; यथा मेघदूतादि || 1. Literature. 2. Consistent with the rules of long and short syllables. Digitzed by Google