पृष्ठम्:भारतानुवर्णनम्.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८६ न्धुनदम् उत्तीर्य पञ्चनदं प्राप । दितस्तायां तरणीया- याम् असौ तस्याः पारे प्रतिसैन्यं सन्नद्धम् अपश्यत् । अतो रात्रावयुतेन पदातिभिः साकम् अन्यतस्तां ती- व प्रातः स प्रतिसैन्यम् अभिजगाम । प्रवृत्ते च चिरं युद्धे ससामन्तः पूरुर्नाम राजा तेन पराजितो बभूव । पराजितस्याश्वा गजा आयुधानि चालकसा- न्द्रस्य वशेऽभवन् । अथ प्रहुतां गताय तस्मै तद्रा- ज्यम् अलकसान्द्रो विससर्ज । तेन तयोः सौहार्द जातम् । ततश्चन्द्रभागाम् उत्तीर्णोऽसौ द्वितीयं पूरुं वि- जित्य तद्राज्यं प्रथमाय सुहृदे प्रादात् । ततोऽन्यदपि किञ्चिद् राज्यं जित्वा स तस्मै प्रायच्छत् । क्रमेण विपाशायाम् उत्तीर्णायां मगधान् आ- कमितुम् इच्छतस्तस्य मतं भक्तिमन्तोऽपि सैनिकाः स्वदेशगमने समुत्सुकतया नान्ववर्तन्त । अतः सेना- पतिना नियार्कनाम्नाधिष्ठितान् बहून् सैनिकान् जल- - 1. Porus. 2. Nearchus. Digitized by Google