सामग्री पर जाएँ

पृष्ठम्:भामिनीविलासः.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६५
शृङ्गारोल्लासः ।

धनवशात्तदवलम्बनेन प्राक्तनानुरागौत्कण्ठ्यात्स्खस्य शोकोकर्षेऽपि वर्णिते ततोऽजु तापोदितनिरतिशयनिर्वेदान्निजस्यौदासीन्येऽपि शान्त्युलासे प्रपञ्चिते यावान् त्यविकासस्ततोऽपि प्रथमोल्लासे नीतिवर्णनध्वनितससाधनधर्मार्थोपदेशसिद्धौ प्रस- ङ्गकामोऽपि श्रीरामवत्स्वकीयायामेव साधनीयो न तु श्रीकृष्णवत्परकीयायामपि, तस्येश्वरत्वेन तत्र तत्संपादनस्यादुष्टत्वेऽपि तदंशे तदाचारस्याननुष्ठेयत्वात् ‘यान्यस्माकं सुचरितानि तानि वयोपास्यानि । नो इतराणि’, ‘महतां वचनं पथ्यं तथैवाचरितं क्कचित्’ इत्यादिश्रुतिस्मृतिभ्यां तथैव बोधितवाचेत्यन्वयव्य- तिरेकप्रबलोदाहरणपूर्वकोपदेशसूचनलाभात्त्वदभिमतभङ्गयन्यतरसरण्या विवरणे तु सुतरां तदसंभवाच्च, ततः करुणोल्लासे श्रीसीतानिर्याणोत्तरं श्रीरामकर्तृकशोक विकसनेनाहोऽनन्तकोटिब्रह्माण्डमण्डनपण्डितस्य भगवतश्चण्डांशुवंशावतंसस्य श्री रामस्यापि सङ्गप्रसादादेतादृशः शोकः संपन्नस्तत्र कैव कथा मादृशानामज्ञानां विषये यैकतत्पराणां पामराणामिति परमनिर्वेदलाभसंभवाद्यथाश्रुते तु तदभावात्प्रत्युत यदि मम तपःसामर्थे स्याच्चेन्मृताया अपि प्रियायाः परमेश्वरकृपया जयदेवपन्या इव पुनर्जीवनं दग्धाया अपि तस्याः , सत्सुहृदादिसामग्रीमहिम्ना मदालसाया इव पुनरवाप्तिथेति तपआदावभिलाषस्यैव संभवाचततः शान्त्युद्यासे खनिदर्शनेन ससाधनस्य ‘किं तीर्थ हरिपादपद्मभजनम्’ इत्यादिना नीत्युलासे सूत्रितस्य ‘पातालं ब्रज’ इत्यादिना मोक्षस्यैव समुपदेशाविकसनादधिकतमरसपरिपोषः किं विकचीभवति न वेति निर्मत्सराः परित्यक्तपक्षपातप्रसराः सारासारविचारचतुराः सूरीश्वरा एव परिचिन्तयन्खिति कृतं पल्लवितेन । हे भामिनि, ‘कोपना सैव भामिनी’ इत्यमरादयि रूपादिगर्वलक्षणमानमूलकप्रणयकोपाङ्करसुन्दरतरवदने वैदेहि । तेनास्यां मानवतीवोत्तमनायिकात्वमुग्धात्वानि ध्वनितानि । एवं च तव कादाचित्कप्रणयकोपाङ्करोदये सत्यपि मुखे वक्ष्यमाणरीत्या यदेतावनिरुपमं लावण्यं तदा तदभावे कियत्तद्भविष्यतीत्यतथावमेव त्वया संपादनीयमित्यचिन्यसौन्दर्य मानापनोदनप्रार्थनं खानुकूल्यसंपादनं च सूचितम् । ते तव मुखस्य वदनस्य। एतेन मानवशात्प्रकृतेऽप्रसन्नवेऽपि ‘कोपेऽपि कान्तं मुखम्’ इत्यादौ कविसमयव- र्णितनैसर्गिककमनीयत्वमपह्वानर्हमेवेति सूचितम् । कापि वक्ष्यमाणहेतुभिरनुपम त्वेनातिलोकोत्तरैवेत्यर्थः । अनेन ब्रह्मानन्दादपि त्वन्मुखनिरीक्षणानन्दस्य लक्ष गुणाधिक्यमिति ध्वन्यते । शोभा सुषमेत्यर्थः । तर्हि किमसौ नेत्रनासिकादितद् वयवेष्वेव नेत्याह-परित इति । समन्ताद्भागेऽपीत्यर्थः । एवं च सर्वावयवः