पृष्ठम्:भामिनीविलासः.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६२
भामिनीविलासे

त्रपर्यवसन्नत्वेन यथाश्रुतार्थकखाभावाच्च । वस्तुतस्तु साध्यसाधनमेदेन पारत्रिकं धर्ममोक्षाख्यपुरुषार्थद्वयमेव । अर्थकामौ त्वैहिकावेव । तत्रापि साधनीभूतस्य ध र्मस्य चित्तशुद्धेर्जनकत्वेन तद्रारा वैराग्यादिसाधनचतुष्टयपुष्टिपूर्वकश्रवणादिपरिपा कोत्तरं वेदान्तमहावाक्यजन्यब्रह्मात्मतत्त्वसाक्षात्कारव्यङ्गथे विशुद्धाद्वैतात्मरूपमोक्ष एव पर्यवसन्नत्वेनैक एव पुरुषार्थः । सर्वपुरुषैरर्यमानस्य निःशेषदुःखध्वंसनिर तिशयसुखलाभस्य तत्रैव संभवात्। धर्मादित्रयाणां परस्परं साध्यसाधनभावसंभ- वेऽपि मुख्यपुमर्थाभावात् । ‘यत्सुखं साधनाधीनं दुःखमेव तदुच्यते’ इत्याद्य भियुक्तोक्त्यापि तथावाचेत्यन्यदेतत् । निरुक्तश्रुतिवशादृतुकाल एव पाणिहीता यामेव कामोपभोगशीलस्यानुषङ्गिकोऽपि किं धर्मो न संभवत्येव । यदि संभवति चेदत्रापि परम्परया भगवत्तात्पर्यकत्वेन किमनया कुरुध्येति चेत्सत्यम् । तथापि प्रथमप्रकरणापेक्षयात्र विक्षेपबाहुल्यस्य कोटिगुणमधिकतमखात्परकीयायामपि प्रसक्त्यापातात्क नाम धर्मोदयावकाशः । देवतापरत्वे त्वस्य तत्स्मरणादिनाम च्छब्दस्थल आहार्यतत्तादात्म्यस्य नटादाविव संभवेन च नायमनर्थः, प्रत्युत धर्माधिक्यसाधकखमेव। कामाख्यस्य व्यावहारिकपुरुषार्थस्यापि निरुक्तान्वयव्य तिरेकनिदर्शनेनाधिकारिणा खकीयायामेव साधयितुं शक्यखाच्च न काप्यनुप पत्तिः । अत एवोक्तं भगवतापि—‘धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ' इति । नन्वथापि ‘रम्या दशा मनसि मे मदिरेक्षणायाःइति तृतीयपद्यादावस्मि जुलासे कवेः शतशोऽप्यस्मच्छब्दस्य सत्त्वात्तथा तृतीये करुणोल्लासेऽपि द्वितीय पचे ‘मामद्य मजरचनैर्वचनैश्च बाले हा लेशतोऽपि न कथं शिशिरीकरोषि’ इति, तथा ‘सा केवलं हरिणशावकलोचना मे’ इत्यादि तृतीयपद्यादावपि भूरिशस्तस्य स्फुटखाचतुर्थे शान्त्युल्लासेऽपि प्रथमलोक एव ‘विशालविषयावलीवलयलग्नदावा- नलप्रसृत्वरशिखावलीविकलितं मदीयं मनः’ इत्यत्र, तथा ‘शिशिरयाशु मां लोचनैः'

इत्यादौ द्वितीयपद्यादावपि तस्य स्पष्टतमत्वाच्च यस्य पूर्वं रमण्यामल्यनुराग-

स्तस्यैव तन्निधने शोकस्ततस्तस्यैवौदासीन्ये भगवत्प्रार्थनमित्यवश्यमेकवक्तृकचे वाच्ये ‘संभवत्येकवाक्य वाक्यभेदो हि नेष्यते’ इति न्यायात्संपद्यमानायामेकवाक्य- तायां कथमत्रत्यास्मच्छब्दस्य रामादिपरतया तृतीयस्थस्यापि तस्य श्रीराममात्रपर तया चतुर्थस्थस्यैव तस्य काव्यैकपरतया व्याख्यानेन वाक्यमेदाङ्गीकरणं शब्दार्थपरी क्षणनिपुणानामादरणीयं स्यात् । तस्माद्यथाश्रुतैवेयमुलासत्रयी व्याख्येयेति चेद्वा ढम् । किमत्र कवेर्निजधर्मपत्न्यैव वर्णनीयत्वेनाभिमतेति ब्रूषे । यद्वा या लोक