पृष्ठम्:भामिनीविलासः.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४
भामिनीविलासे

गीर्भिर्गुरूणां परुषाक्षराभि-
स्तिरस्कृता यान्ति नरा महत्त्वम्।
अलब्धशाणोत्कषणा नृपाणां
न जातु मौलौ मणयो वसन्ति ॥ ७१ ॥

 गीर्भिरिति । नरा गुरूणां परुषाक्षराभिर्न तु तादृगर्थाभिभिस्तिरस्कृताः सन्तो महत्त्वं यान्तीति संबन्धः। तमेवार्थमर्थान्तरन्यासेन द्रढयति--अलब्धेति । न लब्धं शाणोत्कषणं यैते तथा एतादृशो मणयो जातु कदाचिदपि नृपाणां मौल मुकुटे नैव वसन्तीत्यन्वयः । तस्मान्न मम रोषलेशोऽपीत्याशयः । तस्मादुक्ततिरस्क- रणमिष्टमेवेति भावः। इह धीरो नायकः। शान्तो रसः। अर्थान्तरन्यासोऽलंकारः॥

 एवं नरवरकुमारेण संप्रार्थितोऽपि प्रकृतः पण्डितः प्राक्तनं ‘एको विश्वसताम्’ (१।६५ ) इति पद्यावतरणे समुषक्षितं कंन्चिपिशुनं पुनरपि निन्दंस्तं स्वशिष्यं प्रति दुर्जनाः सर्वथा त्याज्या एव, नो चेद्रजैकानुवर्तिनीनां सर्वप्रजानामपि तथा त्वापाताद्राष्ट्रभङ्गप्रसङ्ग इति द्योतयति

वहति विषधरान्पटीरजन्म
शिरसि मषीपटलं दधाति दीपः।
विधुरपि भजतेतरां कलङ्क
पिशुनजनं च बिभर्ति यत्क्षितीन्द्रः ॥ ७२ ॥

 वहतीति । पटीरजन्मा मलयजश्चन्दनविशेष इत्यर्थः विषेति । सर्वानित्यर्थः। चहति धारयतीति यावत् । विषधरपदमत्र साभिप्रायम् । तेन तद्धारणानौचित्यं सूचितम् । दीपः शिरसि मषीपटलं दधातीति संबन्धः। मयीति । कजलभार- मित्यर्थः। एवं वन्यग्राम्योदाहरणे स्फुटीकृत्य दिव्यमपि तद्विशदयति-विधु श्चन्द्रः। अपिः समुच्चये । पूर्णचन्द्रोऽपि कलहं भजतेतरामत्यन्तं सेवत इति यावत् । तत्र हेतुः-पिशुनेति शेषेण । चोऽप्यर्थे। यद्यस्माक्षितीन्द्रोऽपि न तु क्षुद्रोऽपि पिशुनजनं दुजेनसंघं बिभर्ति पोषयतीत्यन्वयः । यतो राजैव दुर्जनरज कस्ततो दिव्यादिभिरपि यदा कलङ्कादिरङ्गकृतस्तदा कैव कथा मनुष्याणामतस्व येदं नैव कार्यमिति तात्पर्यम् । अत्र संबोध्यो नायकः । काव्यलिङ्गानुप्राणितगम्यो प्रेक्षालंकारः। ‘खछु बिभ्रति क्षितीन्द्राःइति पाठे खितरराजवत्तवापि पिशुन पोषक खप्रजानां तथाखापत्त्या राष्ट्रभङ्गोऽवश्यंभावीत्यतस्तत्त्याज्यमेवेति भावः ॥