पृष्ठम्:भामिनीविलासः.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
भामिनीविलासे

आपद्तः खलु महाषयचक्रवर्ति::विस्तारयत्यकृतपूर्वमुदारभावम् ।
कालागिरुदेहनमध्यगतः समन्ता
लोकोत्तरं परिमलं प्रकटीकरोति ॥ ६८॥

 आपद्त इति । महाशयेति । महान्विशालो गम्भीरश्वाशयोऽभिप्रायो येषां तेषां बुद्धिशालिनां पुंसां यश्चक्रवर्ती । सार्वभौम इत्यर्थः । कश्चिीरवरस्ता वदापद्भतोऽपि विपद्रस्तोऽपि । एवं चात्र सावधानत्वानर्हत्वं ध्वन्यते । अकृतेति । पूर्वं कृतः प्राकेनचिदनुष्ठित इति कृतपूर्वः । तादृशो न भवतीत्यकृतपूर्वस्तम् । विचित्रमिति यावत् । एतादृशमुदारभावमौदार्यमित्यर्थः । विस्तारयति खल्विति योजना । उक्तमेवार्थं दृष्टान्तेन द्रढयति—कालेति । कृष्णागरुसंज्ञकः प्रसिद्धश्चन्द नविशेषः । दहनेति । दहनो वहितस्य मध्यस्तं गतोऽपि परमदह्यमानोऽपीत्यर्थः। समन्तात्परितः, नकदेशे । तत्रापि लोकोत्तरमलौकिकं न तु सामान्यं परिमलं सुगन्धं प्रकटीकरोतीति संबन्धः । तस्मान्मदपराधाः श्रीमद्भिः स्वाभाव्यादेव क्षम्यन्ते, तथाप्यधीरतयाहं व्यर्थमेव प्रार्थयामीत्याशयः । अत्र धीरो नायकः । निरुक्त एव रसः। दृष्टान्तोऽलंकारः ॥

 न चास्वेवमस्माकं स्वभावाच्छमस्तथापि त्वयि राजप्रकृतित्वेन यौवनं धनसं ‘ पत्तिः प्रभुत्वमविवेकिता। एकैकमप्यनर्थाय किमु तत्र चतुष्टयम् ॥' इति, ‘यत्र श्रियौवनं वापि शारदा वापि तिष्ठति । तत्र सर्वान्धता नित्यं मूर्वखमपि जायते ॥’ इति चहन्नारश्दीये कपिलाचार्यवचनाच्च मद्वचसा ‘हितं मनोहारि च दुर्लभं वचः’ इति न्यायेन कोपवेदनुचितमेवेति वाच्यम् । गुरूणां भवादृशामस्मदेकहितार्थ कोपघटितत्वेन परुषवाक्यस्यापि काश्मीरकटुखवत्तोयैकपोषकत्वादित्याशयेन महतां कोपमपि सामान्यतो रम्यखेनैव वर्णयति--

विश्वाभिरामगुणगौरवगुम्फितानां
रोषोऽपि निर्मलधियां रमणीय एव।
लोकंपृणैः परिमलैः परिपूरितस्य
काश्मीरजस्य कटुतापि नितान्तरम्या ॥ ६९ ॥

 विश्वेति । विश्वस्मिञ्जगति येऽभिरामाः सुन्दरा एतादृशा ये गुणास्तेषां यक़ौरवं पौष्कल्यं तेन गुम्फिता प्रथितास्तेषामित्यर्थः । एतादृशां निर्मलधियां सुमनसां