औदार्य भुवनत्रयेऽपि विदितं संभूतिरम्भोनिधेः |
औदार्यमिति। संभूतिरुत्पत्तिः । परिमल इति । इदं पद्य यद्यपि नीरानि मॅलतः’ (१६१ ) इति प्राक्तनपथं पठितवाद्विशेषणपदविशिष्टमपि पुनरुकमेव, तथापि वक्तुरुभयत्राप्येकत्वानीत्युपदेशावेशवशेन पौर्वापर्यानुसंधानहीनतया तथा प्रयुक्तमपि नव दोषावहम् । प्रत्युत रसनिर्भरपोषकत्वादुणावहमेव । एवमेव नैष धीयचरितेऽपि कीर्तिमण्डलपदं प्राथमिकपद्यद्वयेऽपि पठितं प्रसिद्धमेव । अत्र विशेषणचतुष्टयेऽपि सुरतरोरिति संबन्धनीयम् । तेनास्य क्रमात्कीर्तिसमुत्पत्तिनि वसतिगुणसंपत्तीनां लोकोत्तरत्वं द्योत्यते । एवं निरुक्तप्रकारेण दातृगुरोर्वदान्यमा न्यस्येत्यर्थः । सुरेति । कल्पद्रुमस्येति यावत् । अत्र दातृशुरो मुरतरो’ इति संबुध्द्यन्तपाठे तवेत्यध्याहार्यम् । सर्वे संपूर्णा अपि गुणास्तदा लोकोत्तरा एव । अचिन्त्या एव स्युरिति शेषः । तदा कदेत्यत्राह--स्यादित्यादिचरमचरणेन । यदि । अर्थेति । अर्थिनां सामान्यतो यावद्याचकानां प्रवरमुत्कटं यदर्थितं तस्य योऽर्पण त्रिघिट्टनविधिस्तस्मिन्विषय इत्यर्थः । एकः केवलो विवेको योग्यतादिविचारः स्यादित्यन्वयः। तस्मादनेन विवेक एव संपादनीय इत्याशयः । इहोदात्त नायकः। दानवीरो रसः । विनोक्तिरलंकारः ॥ वरे एवं वदति सति पण्डिततदैश्वर्यमसहमानः कश्चन पिशुनः प्रकृतरराजकुमारं भ्रूसञयैवायं त्वद्गुरुपि खामविवेकिनमेव मनुत इति किमस्मिन्कृतग्ने विफलभक्ति संपादनेनेति सूचयन्बहिरेव बहुतरविनयवानकस्मान्मृगयां विधायागच्छन्तं व्याधं मयेदं विश्वासेन मृगादिहिंसनमनुचितमेव क्रियत इति कंचिदुदासीनं प्रति जल्पन्तं सन्तमालक्ष्य तेनैव पण्डितवरेण प्रस्तुताङ्कराख्यकिरातान्योक्तया निन्द्यते--
एको विश्वसतां हराम्यपट्टणः प्राणानहं प्राणिना |
एक इति । रे व्याधवमस्यपघृणः। ‘कारुण्यं करुणा घृणा’ इत्यमरादपगता घृणा दया यस्मात्स तथा। निर्देय इत्यर्थः । अत एव विश्वसतां हरिततृणादिदर्श