पृष्ठम्:भामिनीविलासः.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४
भामिनीविलासे

विपरीतबोधवत्त्वात्तत्र त्रीबुद्धित्वं ध्वनितम् । पक्षे भो पद्मिनि, त्वं मधुप इव भ्रमर इव। पक्षे मद्यप इव। अस्मिन्मारुते वायौ । पक्षे मे लक्ष्मीब्रह्मप्रभे तत्कारि रुतं शब्दितं यस्य तस्मिन् गुरावित्यर्थः । विषयसप्तमीयम् । सौरभेति । सौगन्ध्य लोभम् । सूर्यविकासित्वान्निशि मुकुलीभावेन स्वपरिमलवितरणकार्पण्यमित्यर्थः । पक्षे मुखप्रसादादिना निजमनोज्ञत्वाप्रकाशनमिति यावत् । मा मंस्थाः। मा मनन विषयीकुर्या इत्यर्थः । तत्र हेतुः--लोकानामेवेत्युत्तरार्धेन । यतोऽमुना मारुतेन महितोऽपि पूजितोऽप्यात्मा खदेहो लोकानामेव मुदे जनानामेव संतोषार्थमर्थितांअ नीत इति योजना । एवं चास्य खप्रयोजनं न किमपीति द्योतितम् । तस्मान्ना यमनादरणीय इत्याशयः। इह मुग्धा नायिका । पूज्यो नायकः। शान्तो रसः। श्लेषोऽप्यलंकारः ।

 नन्वेतदपि श्रुत्वा स तूष्णीमेव स्थास्यति चेत्किं कर्तव्यमित्याशङ्कय तत्र पठ नीयां स्त्महत्त्वसूचिकां मालत्यन्योक्तिं वक्ति

गुञ्जति मञ्जु मिलिन्दे मा मालति मौनमुपयासीः ।
शिरसा वदान्यगुरवः सादरमेनं वहन्ति सुरतरवः ॥ १८ ॥

 गुञ्जतीति । हे मालति । स्त्रीलिङ्गसंबोधनं प्राग्वत् । त्वं मञ्जु मनोज्ञम् । ' मञ्जु मङगलम् ' इत्यमराद्रम्यं यथा स्यात्तथेत्यर्थः। गुजति गुजारवं कुर्वति मिलिन्दे भ्रमरे विषये इति यावत् । मौनं मोपयसीनैव कुर्या इत्यर्थः । तत्र हेतुः-शिरसेत्यादि । यत एनम् । वदान्येति । दातृवरा अपि सुरतरवः कल्पद्रुमाः सादरं शिरसा वहन्तीत्यन्वयः । इह नायिकादिकमुक्तमेव । मौनशिरःपदे लाक्षणिकत्वेन श्लेषव्यञ्जके ।

 ननु तत्र कश्चित्कर्णेजपो विरुद्धं बोधयेच्चेत्तदा कथमित्याशङ्कायां तत्र वक्तव्यां चन्दनान्योक्तिं कथयति-

यैस्त्वं गुणगणवानपि सतां द्विजिह्वैरसेव्यतां नीतः ।
तानपि वहसि पटीरज किं कथयामस्त्वदीयमौन्नत्यम् ॥ १९ ॥

 यैस्त्वमिति । हे पटीरज भो मलयज चन्दन, गुणगणवानपि त्वं यैर्द्विजिह्वैः सर्पैः । पक्षे सूचकैः । सतामसेव्यतां नीतस्तानपि वहखीत्यादि सरलमेव । औनत्यं महत्त्वम् । इह मूढो नायकः । व्याजस्तुतिरप्यलंकारः ॥

 ननु ततोऽसावुत्थायान्यत्रैव रोषाज्जगमिषुवेत्तत्र किं वाच्यमित्यत्र वकव्यां भृङ्गन्योकिं कथयति-