अयि मलयज महिमायं कस्य गिरामस्तु विषयस्ते । |
अयीति । कोमलसंबोधनेन स्वस्मिन्पाटवं द्योतितम् । मलयेति । कुलीनत्वेन स्तुत्यर्हत्वं व्यज्यते । अयं प्रत्यक्षस्ते तव महिमा माहात्म्यं कस्य गिरां वाचां विषयोऽस्तु । अनिर्वाच्यत्वान्न कस्याप्यस्त्वित्यर्थः । कस्य विधातुः । अस्मदादीनां नैवेति वा । तमेव कथयंस्तत्र हेतुमपि द्योतयति-- उदित्युत्तरार्धेन । गरलं विषमुद्गिरतो वमतः । एतेनातिहेयत्वं सूचितम् । एतादृशान्फणिनो नागान्परिमलोद्गारैर्यत्पुष्णासि । पोषयसीत्यर्थः । अपकारिष्वप्युपकारित्वं तवालौकिकमेवेति भावः । इह समदृष्टिर्नायकः । शान्तो रसः । उक्त एवालंकारः ।
स्तुतिर्हि विपुलैव कार्यकारिणीति द्योतयितुं पुनर्निरुक्तान्योक्त्यैव तां व्यनक्ति--
पाटीर तव पटीयान्कः परिपाटीमिमामुरीकर्तुम् । |
पाटीरेति । पाटीरेति चन्दनसंबोधनम् । पटाः सन्ति यस्य स पट तन्तुवायः तद्वत् ईरयति स्वगुणानन्यत्र पटादौ स यथा प्रेरयति तद्वत्स्वनिष्ठसौरभ्यादिधर्मांश्चन्दनद्रुमादौ प्रेरयतीति पटीरो मलयाचलस्तत्र भवः पाटीरस्तत्संबुद्धावयि मलयानिलय चन्दनेत्यर्थः । तवेमां वक्ष्यमाणत्वेन प्रत्यक्षां परिपाटीं रीतिमुरीकर्तुं स्वीकर्तुं कः पटीयानस्ति । न कोऽपीत्यर्थः । तस्मात्त्वमेव धन्य इत्याशयः । तत्र हेतुमाह-- यदित्युत्तरार्धेन । यद्यस्माद्धेतोस्त्वं पिषतामपि पेषणेन चूर्णीकुर्वतामपि । एतेन परमतितिक्षुत्वं ध्वनितम् । एतादृशां नृणां मनुष्याणां पिष्टोऽपि परिमलैः पुष्टिं तनोषि । विस्तारयसीत्यर्थः । इह क्षमी नायकः । शान्तो रसः । काव्यलेङ्गमलंकारः ।
नन्वेवमपि स यदि मत्कार्यं नैव विवेचयिष्यति तदा किं वक्तव्यमिति चेद्धंसान्योक्त्या तद्ध्वनयति--
नीरक्षीरविवेके हंसालस्यं त्वमेव तनुषे चेत् । |
नीरेति। हे हंसेति संबुद्धिः। एवकारेण त्वयैवमालस्यं नैव कार्यमिति व्यज्यते। तत्रानिष्टापात्तिं स्पष्टयति-– विश्वस्मिन्नित्युत्तरार्धेन । इह जडो नायकः । उक्त एव रसोऽलंकारश्च ॥
नन्वेवमुक्तौ स क्रुध्याति चेत्तत्र वक्तव्यां स्तुतिं व्यनक्ति--