मिति संतोषेण शिरःकम्पनं हि लोके तत्सूचकचेष्टात्वेन सुप्रसिद्धमेव । तदभावा- दधुन्वन्नकम्पयन्भवति स नृपशुरेव । नराकारः पशुरेवेह बोध्य इत्यर्थः । ननु सुभा- षितश्रवणतो जीवन्मुक्तानामपि परितोषाभावस्य समुद्रे वृष्ट्या जलवृद्ध्यभावस्येव लोकादाववलोकितत्वात्कथमेतादृशस्य भवता पशुत्वमेवाध्यवसीयत इत्याशङ्कय, न मयैवं निर्णायते किंतु संदिह्यत एवेति कोट्यन्तरकथनतो व्यनक्ति–अथवेत्या- दिशेषेण । अयं पृथिव्याद्यष्टमूर्तिरूपत्वेन प्रत्यक्षः पशुपतिः श्रीशंकर एव स इति योजना । तथा चाम्नायते---‘ब्रह्मविद्गह्मैव भवति' इति । उक्तं चान्यत्रापि सुभा- षिताद्यनानन्दिनः पशुत्वादि-‘सुभाषितेन गीतेन युवतीनां च लीलया । यस्य नो द्रवते चित्तं स वै मुक्तोऽथ वा पशुः ॥” इति । यथाश्रुते तु प्रकृतकवेः सर्व- ज्ञत्वाभावात्प्रत्यक्षविषयवाचीदंशब्दप्रयोगानापत्तिः । एवं श्रवणेति वचोविशेषणस्य पूर्वार्धेन सहार्थिकद्विरुक्त्यापत्तिरपि । प्रकृतकवेर्गङ्गाप्रसादप्रसिद्धेः पशुपतिस्व- रूपपृथिव्याद्यष्टमूर्तिप्रमासंभवेन तद्विषयकप्रत्यक्षवाचीदंपदप्रयोगादोषात्सरस्वती- सान्निध्यभावेऽपि तस्याः सर्वज्ञत्वेन खकाव्यरसं सा मनसैवाखादयतीत्यवश्य- कव्यं तथा चात्रार्थिकसानुण्येऽपि श्रुतिकटुप्रभृतिशाब्दिकदोषसत्त्वेनाश्राव्यत्वव्युद- सनौपयिकतयैवोक्तविशेषणसार्थकत्वात्पराकार्येति दिक् । अत्राप्युक्त एवं रसः ।। अतिशयोक्तिः संदेहः काव्यलिङ्ग परिकरः परिकराङ्कुरो लुप्तोपमादिश्चालंकारः ॥
भवत्वेवं यस्त्वद्वाग्रसमनास्वादयाते तस्य पशुत्वादिकल्पनमथापि यस्तु तसं ज्ञात्वापि मत्सरवशादेव शिरःकम्पादिकायिकादिव्यापारैनैव तां खतेऽपि बहु मन्यते तस्य किं वन्द्यकोटी निन्द्यकोटौ वा त्वया निवेशः क्रियत इति चेन्न, उपेक्षाख्यतृतीयकोटावेव मम तन्निवेशस्य विवक्षितत्वादियभिसंधाय कवित्व- वीररसाविष्टचेतस्तया कविस्तावन्मूर्तिमतीम् ‘निर्दूषणां गुणवतीं सरसां सुवर्ण सालंकृतिं ध्वनिमतीं शुभलक्षणां च । सद्वृत्तिरीतिमृदुमजुपदामुदारां शृङ्गारभावल- लितां गतबालभावाम् ॥ हृद्येव भूरि कठिनां वदने प्रसन्नामन्यत्र चारुमसृणां दृशि कृष्णसाराम् । मर्यादयातिविनतां विशदाशयाढ्यां साध्वीमुपैति सुकृती तरुणीं च वाणीम् ॥ इत्यादि मदुकप्रकारेणाप्रतः स्थितामिव प्रकृतमत्सरिकृतानादरखिन्ना- मिव च खवाचं प्रकल्प्य तां सान्त्वयति-
मद्वाणि मी कुरु विषाद्मनादरेण |