तपेऽपि च' इति विश्वान्मरकतमणिकृत हरिद्रत्ननिर्मिता ज्योत्स्ना सचन्द्रनक्षत्र- रात्रिस्तत्सदृशी । श्रीरामकान्तेः सीताकान्तिसंपृक्तत्वेन हरिद्वर्णत्वेऽपि तत्राकाश- नैल्यस्य जलादाविव प्रतिफलनाद्रात्रिसाधम्र्येण तथा सूर्यस्य प्रतिफलनात्तन्नीलिमा- दिना सचन्द्रत्वेन तथा तदलंकारहीरप्रतिबिम्वनात्सनक्षत्रत्वेन काचिद्विचित्रा दीप्तिरिति भ्रान्तिः सुघटैवेति भावः । अत्र श्रीरामकान्तौ तु चकोराणां चन्द्र- कान्ताविव तेषां माधुर्याखादे जायमाने पुनर्निरुक्तकल्पनामपि प्रत्याचख्युरियाह नेत्यादिना । नोक्तकान्तिकल्पना नैव संभवति । तत्र हेतुः । सो निरुक्तमरकत- कान्तिः । कुत इत्याक्षेपे । कस्मान्मधुरा । न कुतोऽपि तथेत्यर्थः । इति न संदि- दिहे । अपि तु सवैरपि संदिदिह एवेति योजना । एवं च द्वाभ्यामपि पद्याभ्यां तत्कान्तावलौकिकत्वं ध्वन्यते । अत्र सहेतुकसंदेहालंकारः ॥
चपला जलदच्युता लता वा |
चपलेति । इयं जलदच्युता मेघापतिता चपला विद्युदेव । यद्वा तरुमुख्या- कल्पद्रुमाच्युता लता कल्पवल्ली वास्तीति संशये निमग्नः कपिहनुमान्मनीषी विद्वानत एव अथ निरुक्तसंशयोत्तरं तां सीतां वियोगिनी विरहिणी इति गुरुनिः- श्वसितैरशोकवनिकायां दीर्घनिःश्वासैर्लिङ्गैर्निरणैषीनिर्णतवानिति योजना । अत्रापि ससंदेहोत्तरपरिकरश्च । अत्र ‘कविर्मनीषि' इत्यपि केचित्पठन्यथाप्युक्तनिर्णय- सामग्या मनीषिपदेनैव संपन्नत्वात्संशयस्य तु तद्गौरवादिनैव सिद्धेः कवित्वमनर्थ- कमेवेति ध्येयम् । निर्णयालंकारः ॥
अथास्य ग्रन्थस्य प्रचारप्रतिबन्धकानि नीचगृहसंपत्तिर्विप्रगृहविपत्तिः साधुझि- प्रमतिरसाध्वायुर्वृद्धिव्रततिश्चेति चत्वार्येवातः सांप्रतिकत्वेन तत्प्रयोजकमीश्वरमेव कविरुपालभते-
भूतिर्नीचगृहेषु विप्रसदने दारिद्यकोलाहलो |