पृष्ठम्:भामिनीविलासः.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५८
भामिनीविलासे

निमग्नानां यासु द्रविणरसपर्याकुलदृशां
सपर्यासौकर्य हरिचरणयोरस्तमयते ॥ १८ ॥

 श्रिय इति। ताः श्रियः संपदो मे क्षणमपि च मा सन्विति संबन्धः । एते- नात्मनोऽतिविरक्तत्वं तन्यते । यत्किचित्संपत्तीनां दुःखहेतुत्वेनानाशास्यत्वेऽपि महतीन तासां सुखहेतुत्वमेव स्यादित्याशङ्य ता विशिनष्टि माद्यदित्यादि पूर्वार्धशेषेण । माद्यन्तश्च ते गजाश्च तेषां या घटा ‘करिणां घटना घटा' इत्यम- रात्पङ्गिस्तस्यामित्यादि सरलमेव । तत्र हेत्वाशङ्कां शमयंस्वच्छब्दापेक्षितं पूरयति निमग्नानामित्याद्युत्तरार्धेन । यासु निमग्नानामत एव द्रविणरसपर्याकुलदृशां धनसु- खाखाव्याकुलविवेकानामित्यर्थः । विपरीतं वा हेतुहेतुमद्भावः । तेन जनका दीनां राज्यानुपपत्तिः प्रत्युक्ता । तेषां तत्रानिमग्नत्वाद्वित्तसुखालुप्तविवेकत्वाच । एतादृशां पुंसां हरिचरणयोः । सपर्येति । ‘पूजा संपर्यापचितिः' इत्यमरात्सपर्या पूजा तस्याः सौर्य सुकराया भावः सौकर्य सुसंपाद्यत्वमित्यर्थः । अस्तमयतेऽस्तं प्राप्नोति । दुष्करत्वमेव संपद्यत इत्याशयः । तत्र हेतुगर्भ विशेषणे तु व्याख्याते एव । तस्मादुक्तलक्ष्म्यभावाभिलाषस्तावद्युक्त एवेति भावः । इह काव्यलिङ्गादिरे- वालंकारः ॥

 अथ गङ्गाप्यस्ति सकलमुक्तिप्रतिबन्धध्वंसनकरी तत्तीरवासिनस्तवेति पुनः खचेतः साक्षेपं सान्त्वयति-

किं निःशङ्के शेषे शेषे वयसस्त्वमागतो मृत्युः ।
अथवा सुखं शयथा निकटे जागर्ति जाह्नवी जननी ॥१९॥

 किं निःशङ्कमिति। रे चेतः, त्वं वयस आयुषः शेषे । किंचिदंशेऽवशिष्टे सतीत्यर्थः । यद्वा । आयुषोऽतीन्द्रियत्वाद्वयःशब्देन वार्धक्यमेव ग्राह्यम् । तथा च तेन तदल्पतानुमानमेव । निःशङ्के किं शेषे विषयशयनीये निद्रासीत्यन्वयः । तस्मादितःपरं द्रुततरमेव सावधानेन भाव्यमिति भावः । तत्र हेतुः ‘आगत' इति । पूर्वार्धशेषेण । ततोऽकस्माङ्ग स्मृत्वा निरुक्ताक्षेपमेव प्रतिक्षिपति अथवेत्याद्युत्त- राधैन । शयीथास्त्वं पूर्ववद्धर्मानुरुद्धविषयशय्यायामेव शयनं कुर्वित्यर्थः । तत्र हेतुर्निकट इत्यादिशेषेण । तस्मात्सैव त्वदुद्धार करिष्यत्येवातः किं तवायासैरि- त्याशयः । अत्राक्षेपालंकारः। तदुक्तम्-‘आक्षेपः खयमुक्तस्य प्रतिषेधो विचा- रणात् । चन्द्र संदर्शयात्मानमथवास्ति प्रियामुखम् ॥” इति ॥