‘स्यादाभाषणमालापः' इत्यमरात्संभाषणमित्यर्थः । स्मररिपोर्मदनान्तकस्य श्रीशङ्क- रस्यैवेत्यर्थः । गाथा व्यासादिग्रथितकथेत्यर्थः । आलाप्यतामिति छेदः । निरर्ग- लेवि । निर्गतमलिमिव ‘तद्विष्कम्भोऽर्गलं न ना' इत्यमराद्वाररोधककाष्ठविशेष- मिव क्षयोपायाभावात्प्रतिरोधकं यत्र तच्च तत्सुखं चेति तस्मिन्नद्वैतब्रह्मात्मैक्यसुख इत्यर्थः । एतेन विषयसुखव्युदासः सूचितः । अत्र स्मररिपुपदेन वक्तुरभेदभक्तवं व्यज्यते । अत एवोक्तं मदीयायामद्वैतसुधायाम्-‘कृष्ण पश्यन्तु मां केचित्के- चिद्वा नीललोहितम् । रजुसर्पवदेतेन कूटस्थस्य न मे क्षतिः ॥” इति । कृष्ण- भक्तिचन्द्रिकायामपि-‘उभयोरेका प्रकृतिः प्रत्ययमेदाचे भिन्नवद्भाति । कल- यति कश्चिन्मूढो हरिहरभेदं विना शास्त्रम् ॥” इति । एवं चेह जाप्रदादिविझेपे राजरिपुरमणीनां सेवनचिन्तनभाषणैरनुक्रमात्सुप्यादिलये च वृथायुःक्षयेण पुरु- पार्थाभावो द्योत्यते । तथा चरण चतुष्टयेऽर्थादिजिज्ञासुज्ञानिकर्तृकाश्चतुर्विधी भक्तयो ध्वन्यन्ते । अत्र परिकरपरिकरारकाव्यलिङ्गान्यलंकाराः ॥
अथ चरमचरणसूचनसंजातस्मरणात्साधूसंवर्णयति-
भवग्रीष्मप्रौढातपनिवहसंतप्तवपुषो |
भवेति । भवः संसारः स एव ग्रीष्मातपनिवहो ग्रीष्मर्तुकालिकालोकनिकर- स्वेन सम्यक् न तु यत्किचित्तप्तं संतप्तं वपुः शरीरे येषां ते तथा । एतेन विरा- गसामग्रीपौडकल्यं व्यज्यते । अत एव । बलादिति । द्राक् ‘दाङमक्षु सपदि द्रुते' इत्यमराच्छीघ्रमेव न तु विलम्बेन । तेन परमविरागः सूचितः । बलात् ‘नास्ति योगसमं बलम्' इति वचनाद्योगाभ्यासरूपसामथ्र्थाद्धेतोरित्यर्थः । श्रवणादिसाम- थ्र्येन वा । अविवेकेति । अविवेकस्याविचारस्य व्यतिकर आधिक्यं येन तं मूलाज्ञानलक्षणमित्यर्थः । निगडं लोहब्बलविशेषम् । उन्मूल्य भक्खे- त्यर्थः । एतेनाप्रतिबद्धाद्वैतब्रह्मात्मैक्यसाक्षात्कारपर्यन्तं विचारपरिपाकः सूचितः । ततः विशुद्धेऽविद्यादिदृश्यमलशून्ये पक्षे निष्पक्व । नैराश्येति । सोऽश्नुते सर्वान्का- मान्सह' इति श्रुतेर्ब्रह्मविद्यया निखिलानन्दनाडीभूतब्रह्मानन्दाम्भोधिमग्नताना- न्तरीयकवविध्वस्ताखिलाविषयानन्दावाप्यभिलाषकवाचिराशखशीतल इत्यर्थः ।