पृष्ठम्:भामिनीविलासः.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
शान्तविलासः

 एवमहो सकलजगन्नियन्तुरनन्तकल्याणगुणनिलयस्य भक्तानुग्रहार्थमेव प्रकटीकृ- तमायिकलीलाविप्रहस्य वस्तुतः संविदेकरसस्य खप्रकाशसत्यज्ञानानन्तानन्दाद्वैतकूट- स्थब्रह्मरूपस्य भगवतः श्रीरामस्यापि यदा वधमैंकरीत्या विषयान्भुञ्जतश्चक्रवर्तनो- ऽपि यदा प्रेयसीवियोगेन विवेकेतरप्रतीकारविधुरः शोकव्यतिकर एवं संपन्नस्तदा कैव कथा मादृशस्य पामरतरस्येति संजातविचाराङ्कुरः प्रथमोल्लासप्रस्तुतः कश्चिन्न- रवरकुमारःसद्यः संपन्नवैराग्यभरः श्रुत्यन्तमहावाक्यैककरणकाशेषदृश्यशोकतरण- द्वारीभूताद्वैतब्रह्मात्मैक्यसाक्षात्कारफलकद्वैतमिथ्यावानुभवस्य यावत्काम्यनिषिद्धव- र्जनपूर्वकानेकजन्मानुष्ठितवेदैकनिष्ठापूर्वकनित्यादिखवर्णाश्रमकर्मपरितुष्टान्तयम्ये- कप्रसादासादितचित्तशुद्धिसत्त्वे ‘यस्य देवे पर भक्तिः' इति, ‘भक्त्या मामभिजा- नाति' इत्यादिश्रुतिस्मृतिप्रसिद्धभगवद्भक्त्येकसाध्यतया तदर्थ तमेव प्रार्थयते--

विशालविषयावलीमलयलग्नदावानल-
प्रसृत्वरशिखावलीविकलितं मदीयं मनः ।
अमन्दमिलदिन्दिरे निखिलमाधुरीमन्दिरे
मुकुन्दमुखचन्दिरे चिरमिदं चकोरायताम् ॥ १ ॥

 विशालेति । इदम् । एतेन वर्तमानकालावच्छिन्नत्वं ध्वन्यते। तेन वरातिश- यात्तापप्राचुर्यं सुच्यते । मदीयं मामकम् । मनोऽन्तःकरणं न तु चक्षुः । तेन प्रतिपाद्यनासक्त्या विवेकपौष्कल्यं योयते । मुकुन्देति । ‘मुकुन्दो मुरमर्दनः इत्यमराद्विष्णुरेव मुकुन्दस्तस्य यन्मुखं वदनं तदेव चन्दिरः । ‘चिदि आह्लादने’ इति धातोरुणादिप्रत्ययविशेषाञ्चन्द्रस्तस्मिन्विषय इत्यर्थः । 'चन्दिरोऽनेकपे चन्द्रे' इति विश्वः । चिरं न तु क्षणम् । प्रेमदायँ व्यज्यते । चकोरायतां चकोरवदाचरत। स यथा लौकिकराकामकरे संसक्तो भवति तत्किरणामृतपानार्थमेवमिदमत्र ब्रह्मा- मृतपानार्थमासक्तं भववित्यन्वयः । ननु लौकिकचन्द्र कामिनीमुखचन्द्र एव बी किमिति न तथात्वं प्राथ्येत इत्याशङ्कय तयोः क्षयिष्णुवात्सर्वांशिकशोभावत्वेऽना- दरबीजं व्यञ्जयस्तं विशिनष्टि-अमन्देत्याद्युत्तरार्धशेषेण । अमन्दमखण्डं मिल- न्तीन्दिरा शोभा लक्ष्मीश्च यस्मिंस्तत्रेयर्थः । एतेन प्रकृतचन्द्रव्यतिरेकः सूचितः । निखिलेति । सर्वमधुरिमाधार इति यावत् । एवं च सकामैककल्पितमधुरिमाधा: रात्कामिनीवदनादसौ योयते । तेन प्रकृते नित्यनिरतिशयसौन्दर्यशालिवं सका-