पृष्ठम्:भामिनीविलासः.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३३
शृङ्गारोल्लासः
वदनेति। हे मित्र, वदनं प्रकृतकान्ताया मुखमेवारविन्दं कमलं तस्य यत्सौ-

रभं सौगन्ध्यं तस्य यो लोभोऽभिलाषस्तस्मादित्यर्थः । इन्दीवरेषु । ‘भ्रमरश्चञ्चरीकः स्याद्रोलम्बो मधुसूदनः । इन्दीवरः पुष्पकीटो मधुद्रो मधुकेशटः ॥ इति त्रिका- ण्डशेषाद्भमरेष्वित्यर्थः । निपतत्सु वनपद्ममभितः परिभ्रमत्सु सत्खित्यर्थः । तदा- नीमेवोद्दीपनवशादधरार्थिनि तदधरामृतपानेच्छौ मयि विषये । सुदृशः प्रकृतमृ- गाक्ष्याः । अतिरुषापि परमकोपेनापि । अपरुषा इति छेदः । अकठोरा एव । एतेन हार्दप्रेमा ध्वन्यते । एतादृशो दृशो दृष्टयो जयन्ति कोपेऽप्यपरुषत्वादेव सर्वोत्क- बैण वर्तन्त इति योजना । इह धर्मबोधिनी स्वकीया मध्यैव नायिका । गुणज्ञो नायकः । संभोग एव शृङ्गारः । भ्रान्त्यादिरलंकारः। जयवर्णनादन्ते मङ्गलमपि ॥

               इति प्रणयप्रकाशे द्वितीयः प्रमोदः ।