पृष्ठम्:भामिनीविलासः.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२४
भमिनीविलसे

रकमपि विद्रुमद्रुम् । ‘दुद्रुमागमाः' इत्यमरात्प्रवालतरुमित्यर्थः । तथा मृदुलतरं परमकोमलम् । एतादृशं किसलयं पल्लवं चापि । मधुरिमेति । माधुर्योत्कर्षात् । अधरीकरोति । तुच्छीकुरुत इत्यन्वयः । तस्मात्त्वयाद्य स एव मां पाययितव्य इत्याशयः । अत्र वकीयैव मध्या नायिका । कामुको नायकः। संभोगः शृङ्गारः। प्रतीपविशेषोऽलंकारः ।।

 ततस्तया दीयमाने स्वयंग्रहालिङ्गनादिना तृतीयपुमर्थीभूतसुरतसुखे श्रीरामः श्रीकृष्णो वा क्रमाजानक्या रुक्मिण्या वा तात्कालिकलोचनादिसौन्दर्यं वर्णयति-- नयन इत्यादिद्वाभ्याम् ।।

नयने वहतां नु खञ्जनाना-
मिह नानाविधमङ्गभङ्गभाग्यम् ।
मुखमेतु तुलां कथं सुशोभं
सुदृशो भङ्गुरसंपदाम्बुजेन ॥ ८८ ॥

 नयने इति । सुदृशः प्रकृतमृगाक्ष्याः। नयने नेत्रे। इहास्मिन्सुरतकाले। खञ्ज. नानाम्। खञ्जरीटाख्यपक्षिविशेषाणामित्यर्थः। नानाविधं बहुप्रकारम् । एतेन खभा- वोत्या तात्कालिकोऽनिर्वच्यश्चमत्कारस्तल्लोचनयोः सूचितः । अङ्गेति। अङ्गानामव- यवानां भङ्गः ‘भङ्गस्तरङ्ग ऋग्भेदे छेदे जयविपर्यये' इति विश्वात्पराजयो येन तच्च तद्भाग्यम् । ऐश्वर्यमित्यर्थः। एतेन तन्नयनयोस्तत्कालं खञ्जनाङ्गपराभवकारि भूरि- तरसामर्थ्यवत्त्वेनातिचापल्यादि योतितम् । वहतां नु धारयतां किम् । उत्प्रेक्षया त्वेतदपि वक्तुमशक्यमेव तयोर्निरुपमत्वात् । तस्मादनिर्वचनीयमेव तद्वैभवमिति व्यज्यते । एवं चेन्निरुक्तसुन्दरतरनेत्राधिकरणत्वेन सुशोभं परमनिरन्तरशोभा- शालीदमस्या मुखम् । भङ्गुरेति । नश्वरलक्ष्मीकेन का(अ)म्बुजेन पध्मेन सह तुलां कथमेतु । न कथमपीति संबन्धः । एवं चैतदुपलक्षितनिरुपमसर्वाङ्गसुन्दर्ये- वेयमित्याशयः । अत्रोत्प्रेक्षाप्रतीपे चालंकारौ । शेषं सर्वं प्राग्वदेव ॥

सुदृशो जितरत्नजालया
सुरतान्तश्रमबिन्दुमालया।
अलिकेन च हेमकान्तिना
विदधे कापि रुचिः परस्परम् ॥ ८९ ॥

 सुहश इति । जितं पराजितं रत्नजालं हीरकादिरवकणिकाजालकं यया सा तथेत्यर्थः । सुरतेति । बिन्दवोऽत्र स्वेदजा एव । अलिकेन ‘ललाटमलिकम्’