पृष्ठम्:भामिनीविलासः.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११९
शृङ्गारोल्लासः

लिकत्वेनात्यानन्दहेतुत्वं व्यज्यते । न तु स्मर्यमाणत्वेन सुखमात्रप्रयोजक- त्वम् । केसराः किञ्जल्काः । एतेन तदानने शरन्मध्याह्न कालिककमलत्वं तदधरे अवालाधिकारुणत्वं शुक्ला परमसूक्ष्मदन्तहीरककणिकाकान्तिपु खदीप्तिसंमेलनेन कुङ्कुमसंपर्कतश्चन्दनस्येव पीतवर्णकिजल्काध्यवसानार्हत्वं च ध्वन्यते। हेलन्तरमपि तत्र निरुक्तपद्मवनिर्णयप्रयोजकमाह-अपि चेति चरमार्धेन । समुच्चयार्थकमेवेदं निपातद्वयम् । मकरन्देति । मकरन्दे पुष्परसे स्पृहयालवः । स्पृहाशीला इत्यर्थः । अतएव । अलकेति । त्वत्केशवेषधरा इत्यर्थः । अलयो भ्रमरा एव सन्तीति । योजना । एतेन तत्केशानां कुटिलत्वनीलत्वे सूचिते । यो हि यमर्थ यतमानोऽपि न लभते स तदर्थं वेषान्तरमपि धृत्वा तं साधयत्येवेति कवचकुण्डलादौ महाभा- रतेऽवलोकितमेव । अतस्त्वद्वदनपझमकरन्दस्य लोकोत्तरत्वेन मधुपानां स्वप्नेऽप्य- लभ्यत्वात्तैस्त्वत्केशवेषमासाद्य तदर्थ यत्यत इत्याशयः । इह मुदिता स्वकीयादिन- यिका । कुशलो नायकः । संभोगः शृङ्गारः । कैतवापलुतिरलंकारः ॥

अनिशं नयनाभिरामया
रमया संमदिनो मुखस्य ते ।
निशि निःसरदिन्दिरं कथं
तुलयामः कलयापि पङ्कजम् ॥ ७९ ॥

 अनिशमिति। न तु दिवस एव । नयनेति । लोचनाप्रिययेति यावत् । रमया लक्ष्म्या । शोभयेत्यर्थः । शब्दादिशोभा हि श्रोत्रैकवेद्येति तद्युदासार्थ नयनेति विशेषण युक्तमेव । संमदिनः । ‘प्रमोदामोदसंमदाः' इत्यमरादानन्दिन इत्यर्थः ।। एतादृशस्य ते मुखस्य वदनस्य । कलयापि षोडशभागेन नेत्रेणापि सहेयर्थः । एतेन सर्वांशतुलाराहियस्य कैमुत्यसिद्धिर्ध्वनिता । तत्र हेतु द्योतयन्पङ्कजं विशि- नष्टि-निशीति । रात्रावियर्थः । निःसरदिति। निःसरन्यपगच्छन्तीन्दिरा शोभा यस्य तत्तथा । सूर्यास्ते हि पद्म मुकुलत्येवेति प्रसिद्ध लोके । एतादृशं क्षणिकैश्वर्य- शालि पङ्कजं पद्म कथं वा तुलयाम इत्यन्वयः। तस्मान्निरुपममेवेदं तवाननमिति तत्त्वम् । अत्र प्रतीपविशेषोऽलंकारः । अन्यत्प्राग्वदेव ॥

 एवम् सीतां श्रीरामो राधां श्रीकृष्णो वाभिनन्द्य यथेच्छ तया सह तृतीयपुमर्थ- सुखमनुभूय तत्सुखपारवश्येन व्युत्थानकालानवधानात्सङ्गवे ( त्सखे ) किमिदं कान्तापारतक्ष्यमायुष्मतां भवतामिति केनचिद्रहःसुहृदाक्षिप्तस्तं प्रत्याहू-अजैरि- त्यादिद्वाभ्याम् ।