पृष्ठम्:भामिनीविलासः.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०२
भामिनीविलासे

इत्यर्थः । एतादृशो वाताः पवना वान्त्युक्तरीत्या शीतादिगुणत्रयवत्वेन प्रसरन्तीति। यावत् । किंच । अमी प्रत्यक्षास्वाम्राः नूत्नसंजातपल्लवत्वेनारक्तवर्णा इत्यर्थः । ईदृशाः । रसालेति । आम्रवृक्षा इत्यर्थः । लोचनं नेत्रम् । जात्यभिप्रायमेकव- चनम् । विरहिणीनामित्यार्थिकम् । विवेकज्ञानं वा । दहन्ति । एतेन विवेकः कार्य इत्याकाङ्घापि प्रतिक्षिप्ता । अपि च । हन्तेति खेदे । एते प्रत्यक्षा न तु परोक्षाः । तेन तद्भुनौ भ्रमत्वं व्युदस्तम् । कोकिलाकूजितमयं रुतत्वेन विकृतम् । एतेन विकृतस्य तिक्तद्रव्यादेरतिरिक्तत्ववदनुपमतापकत्वं व्यक्तम् । हालाहलम् । ‘पुसि क्लीबे च काकोलकालकूटहलाहलाः' इत्यमरात्स्वार्थ तद्धितः । कालकूटमित्यर्थः । तेनालीकिकदाहकत्वं द्योत्यते । किरन्ति । वर्षन्तीत्यर्थः । तेनाल्पत्वं सूचितम् ।। भवत्वेवम् , किमेतावता प्रकृत इत्यत आह—बालेति चरमचरणेन । एवं सति हे सखि, इयं मद्यस्या बाला द्वादशवर्षोंवैषोडशावग्वयस्का । सीता राधा वेति यावत् । न तु प्रौढा । तेन धैर्यवेधुर्यं ध्वन्यते । तत्रापि दृढा चेत्सहेतैव कदाचि- त्परंतु परमसौकुमार्यान्न तच्छङ्कापीति व्यनक्ति-बालेति विशेषणतः । तत्रापि वालं न तु पक्कं तदपि मृणालं विसं न तु कुसुमं तद्वत्कोमला सुकुमारतरा तनु- यस्याः सा तथेत्यर्थः । एतादृशी । अत एव नायकसंयोगमन्तरा कथं प्राणान्नक्षतु। न कथमपीत्यार्थिकम् । तस्मादनयाधुनाभिसर्तव्यमेवेति तात्पर्यम् । इह नायिकादिकं सर्वमनपूर्वमेव । उक्तास्पदा हेतूत्प्रेक्षा परिणामः काव्यलिङ्गं लुप्तोपमादिश्वालंकारः ॥

 एवं स्वरहःसखीवाक्येन सीता राधा वा यावत्स्वमनसि श्रीरामाद्यभिसरणसं. कल्पाद्याकलयति तावदेव तदुद्दीपनसामग्रीभूतममृतद्युतिबिम्बमुदयाचलङ्गश्रेणि- परिचुम्बि संबभूवेति कविवर्णयति-

आयातेव निशा मनो मृगशामुन्निद्रमातन्वती
मानो मे कथमेष संप्रति निरातङ्क हृदि स्थास्यति ।
ऊहापोहोमियं सरोजनयना यावविधतेतरां
तावत्कामनृपातपत्रसुषमं बिम्वं वभासे विधोः॥ ५८ ॥

 आयातैवेति । यत इत्यध्याहारः। मृगेति । हरिणाक्षीणामित्यर्थः । एतेन तारुण्यं ध्वन्यते । तत्रैव स्त्रीणां हरिणादिवद्रागादिना लोचनचापल्या दिसत्त्वात् । एवं च साधारणतरुणीनामपीयं रात्रि. कामोद्दीपिका यदा, तदा लोकोत्तरतरुण्या मे सा कीदृगुद्दीपनातिशयं करिष्यतीति न जान इति चिन्ताशयः सूचितः । मनोऽन्तः-