पृष्ठम्:भामिनीविलासः.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९८
भामिनीविलासे

 एवं सख्योपदिष्टाप्यप्रसन्ना सीता राधा वा श्रीरामेण श्रीकृष्णेन वा विनोद्यते--


अलंकर्तुं कर्णोभृशमनुभवन्त्या नवरुज
ससीत्कार तिर्यग्वलितवदनाया मृगदृशः।
कराजव्यापारानतिसुकृतसारान्सयतो
जनुः सर्वे श्लाघ्यं जयति ललितोत्तंस भवतः ॥ ५३॥

 अलंकर्तुमिति हे ललितोतंस, लालित्यं प्रकृतप्रियाकर्णस्थितत्वादेव बो- ध्यम् । पृथक्पदं वेद्यम् । एतेन जडोऽपि रत्नावतंसो यत्कर्णस्थितत्वेनैव ललितोऽभूत्त- यातिप्रीत्या हृद्यालिङ्गितोऽहं चेतनोऽपि ललिततमो नायकः किं न भविष्यामीत्याकूतं द्योत्यते । भवतस्तव सर्व न तु यत्किंचित् । तेन तव सकलजन्मसाफल्यं वक्ष्यमा- णव्यापारानुभवादेवेति व्यज्यते । ततो मम तु न तथेतीष्यपि सूच्यते । जनुः । ‘जनुर्जननजन्मानि' इत्यमराजन्मेत्यर्थः । श्लाघ्यं पूज्यं जयति सर्वोत्कर्षण वर्तत इत्यन्वयः । तत्र हेतुस्रिपाद्या । कर्णावलंकर्तु भूषयितुम् । नवरुजं नवा कर्णवेधादि- जन्यत्वेन नूतना चासो रुक्चेति तथा । तामित्यर्थः। भृशं न तु यत्किंचित् । तेन तज्जन्यदुःखेऽप्यलंकारधारणादौ तरुणीनां प्रायो नैसर्गिक्येवाभिरुचिरिति खभावो- क्तिāन्यते । अनुभवन्त्या न तु शृण्वन्त्याः स्मरन्त्या वेत्यर्थः। एवं वक्ष्यमाणव्या- पारकारणत्वं फलितम् । अत एव ससीत्कारं सीत्कारपूर्वकं यथा भवति तथेति यावत् । तिर्यक् । सव्यतदितरपार्थान्यतरभाग इत्यर्थः । वलितेति । वलितं वक्रीकृतं वदनं यया सा तथा तस्याः । एतादृश्या मृगदृशः कुरङ्गाक्ष्याः । अस्या मप्रेयस्या इति यावत् । करेति । पाणिपद्मस्पर्शा दिव्यवहारानित्यर्थं । एतद्रूगन् । अतीति । अतुलपुण्यपरिपाकमुख्यांशानि ति यावत् । रसयतः । आस्वादयत इत्यर्थः । एता- दृशस्य भवत इति संबन्धः । एवं चेतादृक्तियग्वलितवदनसीत्कार पूर्वकं हि करक- मलव्यापाराः सौकुमार्यातिशयेन सुरतरभसासहिष्णुतादशायां मयानुभवितुं योग्य एव भवन्त्यस्यास्तत्कालं मदङ्गमृदुपरामर्शादिना । तत्त्वद्य विपरीतमेव संपन्नं यज- डेनापि भवता तेऽनुभूयन्ते न तु प्रियतमेनापि मयेति धिमैव मन्दभाग्य मिति भावः । अत्र मानवती स्वकीयादिरेव नायिका । कुशलो नायकः । विप्रलम्भः शृङ्गारः । काव्यलिङ्गादिरलंकारः ॥ ।

 ततोऽपि मानानपगमे पुनस्तत्सख्येव तां साम्नैव प्रार्थयते--

आयातैव निशा निशापतिकरैः पूर्ण दिशामन्तरं
भामिन्यो भवनेषु भूषणगणैरङ्गान्यलंकुर्वते ।