तिनेत्रैकवर्णनेनेतरगुणावयवानामवर्ण्यत्वं मनस्युरप्रेक्ष्य कुपितायां राधिकायां सत्य तत्सान्त्वनध्वननार्थं तत्सखीं प्रति श्रीकृष्णो वा तच्छीलविशेष वर्णयति-
गुरुमध्ये हरिणाक्षी मार्तिकशकलैर्विहन्तुकाम माम् । |
गुरुमध्य इति । मार्तिकेति । मृत्तिकाया इमानि तानि च तानि शकलानि चेति तथा तैः। मृल्लोष्टखण्डेरित्यर्थः ।रदेति । रदैर्दन्तैर्यन्त्रितं घृतं रसनाग्रं जिह्वाग्रं यस्मिन्कर्मणि यथा भवति तथेत्यर्थः । स्वभावोक्तिरियम् । एवं तरलितेत्यपि । यथाश्रुत एवान्वयः । एवं च लज्जाभये व्यज्येते । तस्मान्मौग्ध्य इयमेवं मर्यादा- शीलाभूत , अधुना तु मध्यावस्थायां ततोऽप्याधिक्येनैव भाव्यम् । तदपहाय विवेकैकमूलकं क्रोधादिकमेवेयं कलयतीति तत्र मद्देवमेव प्रयोजकमित्याकूतम् । इह स्वकीया परकीया वा स्मयमाणा लज्जादिमती, प्रकृता तु क्रुद्धा मध्यैव नायिका । कामुकः खिन्नश्च नायकः । विप्रलम्भ एव शृङ्गारः । लुप्तोपमा काव्यलिङ्ग खभा- वोक्तिश्चालंकारः ॥
ततो रसरभसाद्विरहकातरेण श्रीरामेण सीता श्रीकृष्णेन राधिका वा यदि त्वं नैव प्रसीदसि तर्हि गच्छाम्येवाहम् , तथाप्येकवारं चरममिदमालिङ्गनं देहि इति वदता बलादेवालिङ्गिता सती तादृगाश्लेषादिमाहात्म्येनैव सद्यः प्रससादेवि कविर्वर्णयति--
नयनाञ्चलावमर्श या न कदाचित्पुरा सेहे। |
नयनेति । या नेति । नेत्रकोणसूचितरतिपरामर्शमपीत्यर्थः। एतेन मानाद्य- तिरेकः सूचितः । पुरा कदाचिदपि न सेहे नैवासहत् । किंतु कुपितैवासेत्यर्थः । सा गन्तुकेन जिगमिषुणा दयितेनालिङ्गितापि न तु दृष्टा साङ्गमङ्गैर्भुजप्रसारणकु- चौन्नत्यकरणादिरूपैः साधनैः सहितं यथा भवति तथा । एतेन प्रसादो द्योतितः । तस्थाविल्यन्वयः । तस्मादलौकिकं काममाहात्म्यमिति तत्त्वम् । आलिङ्गितापि जोषं तस्थौ सा' इति पाठे तु जोषं सुखं यथा स्यात्तथा तस्थावियर्थः । अत्र गन्तुकपदं सहेतुकम् । इह मुदिता खकीया परकीया वा मध्यैव नायिका नायकश्च । संभोगः शृङ्गारः । परिकरोऽलंकारः ॥